SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ सूरिप्रणीतः] श्रीचिन्तामणिकल्पसारः। कार्मणं याति दूरेण यन्मध्यात् केनचित् कृतम् । यन्त्रपानप्रयोगेण देहिनां नात्र संशयः ॥१७॥ रक्तकणवीरपुष्पैदिशसङ्ख्यैः सहस्रसञ्जप्तम् । वश्याकर्षणकार्य करोति मन्त्राधिराजोऽयम् ॥१८॥ स्तम्भयति शत्रुवाचं पोतध्यानेन पोतपुष्पौधैः । ईतिस्तम्भं करोति विधिना वरवालुकां जप्त्वा ॥१९॥ अनवच्छिन्ना रेखा देया क्षेत्रेषु मूलमन्त्रेण । नाशयति शलभवृन्दं गुरूपदेशेन सञ्जप्तम् ॥२०॥ श्मशानकर्पटे खलु श्मशानाङ्गारराजिका च विषैः । धत्तूरकरसलिखितं परिजप्तं काहलीपुष्पैः ॥ २१॥ उच्चाटयति महेश्वरध्वजातिबद्धं समस्तशत्रुगणम् । मारयति चिताङ्गारैः परिजप्तं नास्ति सन्देहः ॥२२॥ इति सङ्केपेण मया कथितं चिन्तामणेः फलं सारम् । विस्तरतो विज्ञेयं बृहदुद्धारान्महामतिभिः ॥ २३ ॥ इत्येवं तीर्थनाथप्रवरगुणगणं पार्श्वनाथस्य सम्यक् __चक्र चिन्तामणियः स्मरति विधिपरो भावशुद्धिस्त्रिसन्ध्यम् । सम्प्राप्नोत्याशु राज्यं त्रिदशपतिपदं तीर्थपत्वं च सिद्धि .. का वार्ताऽशेषसिद्धिप्रदभुवनपतेः पादपद्मप्रसादात् ।।२४ ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy