SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ श्रीजैनस्तोत्रसन्दोहे समाप्तमिति । साह श्री वच्छासु साह सहस्रकिरणेन पुस्तकमिदं गृहीतं सुत साह वर्द्धमानशान्तिदास पाल ( पठ) नार्थम् । [ ३ ] ३० श्रीमानतुङ्गसूरिशिष्य श्रीधर्मघोषसूरिविरचितः श्रीचिन्तामणिकल्पः ः । [ श्रीधर्मघोष । किञ्चिद् गुरूणां वदनारविन्दानिशम्य सम्यक् परमार्थमुचैः । विलिख्यते स्वान्यजनोपकृत्यै श्रीपार्श्व चिन्तामणिमन्त्रकल्पः ॥ १ ॥ नव्वा प्रणतनागेन्द्रं पार्श्वनाथं जिनेश्वरम् । चिन्तामणि सुमन्त्रस्य वक्ष्ये कल्पं समासतः चिन्तामणिर्मूलमन्त्रः कामधुक् कल्पपादपः । मन्त्रराजः सर्वकर्मा निधिः कामघटोsपि च पाठान्तरः कल्पवृक्षो महातेजा महाचिन्तामणिर्नवः । कामधुक् कल्पराट् कर्मनिधिः कामघटोऽपि च एतानि तस्य नामानि मन्त्रशास्त्रपरायणैः । प्रथितानि प्रयत्नेन ज्ञातव्यानि गुरोर्मुखात् यस्य तस्य न दातव्यो मन्त्रोऽयं गुरुणापि हि यतः कुपात्रदानेन दोषाः स्युरुभयोरपि कुलीनं धार्मिकं भक्तं पूजाकर्मरतं तथा । धनिनं दानशीलं च गुरोर्वचनतत्परम् ईदृशं साधकं ज्ञात्वा मूलमन्त्रं प्रकाशयेत् । विधाय परमां पूजां दीपोत्सवादिपर्वणि ॥ २ ॥ ॥३॥ || 8 || ॥ ५॥ ॥ ६ ॥ ॥ ७ ॥ ॥ ८ ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy