________________
प्रस्तावना ।
( ६९ )
मितानि स्तोत्राणि विरचयेयुरिमे ' तपोमतकुट्टनम् ' नाम गच्छकदाग्रह प्रकाशकं ग्रन्थमिति महच्चित्रम् |
श्रीमल्लिषेणसूरिभिः १२१४ शाकाब्दे विरचितायां स्याद्वादमञ्जरीवृत्तौ साहाय्यकृतोऽमी, उक्तं च तत्रैव
""
" श्रीजिनप्रभसूरीणां साहाय्योद्भिन्नसौरभा । श्रुतावुत्तंसतु सतां वृत्तिः स्याद्वादमञ्जरी || ३ || श्रीजिनसेनशिष्योभयभाषाकविशेखर श्रीमल्लिषेणसूरिविरचिते भैरवपद्मावती कल्पेऽप्यस्यैव साहाय्यम् । (३१) देवेन्द्रसूरिः ।
एतन्नामधेयधारिणो भिन्नभिन्नगच्छेष्वनेके समजायन्त सूरिपुरन्दरास्तथाप्यत्रैव पृ. ५४ मुद्रिते त्रिंशच्चतुर्विंशतिकास्तवनदशके प्रत्येकस्तवान्ते — श्रीसङ्घतिलकश्रियम् ' इति पदावलोकनेन सम्यक्त्वसप्ततिकावृति (तत्वकौमुदी) विरयितू रुद्रपल्लीय गच्छतिलकायमानस्य श्रीसङ्गतिलकाचार्यस्य शिष्यपुङ्गवोऽयमिति निश्चयः ।
गुरुपर्वक्रमस्त्वस्य प्रश्नोत्तररत्नमालावृत्ति - सम्यक्त्वसप्ततिकावृत्तिशीलोपदेशमालावृत्ति ( शीलतरङ्गिणी ) प्रशस्तिपचैः सम्यगवबुध्यते, स च वाचकानां सौलभ्याय दीयतेऽत्र वृक्षरूपेण
१ 'तपोमतकुट्टनं जिनप्रभस्य कृतिरित्यर्थे नास्ति संदेहः, परं तत्र दर्शितेन स्वस्य सिद्धान्ताऽनभिज्ञत्वेन बालसुलभेन अभिनिवेशेन द्वेषपोषेण च ज्ञायते यदुतायं ग्रन्थः कर्त्रा स्वस्य प्रथमे वयसि निमर्तिः स्यात्, तपागच्छीयैः सह मैत्री च पश्चिमे वयसि ।' इति श्रीकल्याणविजयमुनिवराः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org