SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना । सूच्याख्या अतिवज्रतुण्डनखरा अन्यान्यदेहोर्ध्वगाः कल्लोला इव वारिधेर्दशदिगुद्भूताः प्रसत्रः क्षणात् ॥४०॥ अङ्गारोहणवस्त्रपात्रवलकस्तम्भादनैकादशन् दृष्ट्वा तान् वसतेर्बहिश्च परितः श्वानौतुसर्पध्वनीन् । श्रुत्वा रौद्रतमान् प्रकम्प्रतनवो भीतेर्भरात् साधवो ऽन्योऽन्याह्वानपराश्च नालमभवन् स्थातुं प्रनष्टुं तथा ॥४१॥ वस्त्रच्छन्नमुखे घटे प्रथमतः सज्जीकृते श्रीगुरु - दत्वा हस्तमथाजपद् गतभयो यावत् स तावच्छठः । सर्वाङ्गेऽप्युदितं व्यथा समुदयं हर्तु विषोढुं प्रणि न्होतुं वाप्यसहस्ततोऽनुगजनानूचे म्रिये भो ! त्रिये ॥४२॥ धिग्मामनात्मज्ञमदीर्घदर्शिनं येनाभिमानादपमानितो गुरुः । क्काणुः कः मेरुः क सरः क्क सागरः काहं हहा कैष च सर्वसिद्धिवित् ॥४३॥ (५९) भीतः सोऽविकलं निजं विलसितं संहृत्य पीडावशादाकन्दंश्च कर्णश्च तत्र वसतौ गत्वा मुखात्ताङ्गुलिः । ऊंचे ज्ञानवशाद् यदत्र विहितं तत् क्षम्यतां क्षम्यतां नातो वो विदधामि किञ्चिदशुभं साक्षी जनोऽत्राखिलः ॥ ४४ ॥ निरीक्ष्य दीनं स्वपदोर्विलीनं तं योगिराजं सुसमाधिभाजम् चकार शान्तः प्रभुधर्मघोषः पुण्यप्रभायाश्च बभूव पोषः ॥ ४५॥” प्रायशो ' देवेन्द्र विद्यानन्दधर्मकीर्ति पदाङ्किताः श्रीमतः कृतयः । ताश्चैवम् --- चैत्यवन्दनभाष्यवृत्तिः (सङ्घाचारनाम्नी), यो Jain Education International 9 For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy