SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ (५८) जैनस्तोत्रसन्दोहे। शून्याऽस्ते सकलाऽपरा यदिह भोः प्राप्ता विशङ्का हठात् दृष्टोऽहं यदि नो श्रुतोऽपि किमु रे नात्र स्थितो नन्वहम् ॥३५॥ बाहुभ्यां जलधि तराणि यदि वा तं शोषयाणि क्षणा दाकाशं विपुलं प्रयाणि खगवद्रात्रौ च कुर्या दिनम् । . शेषाहिं दृढयोगपट्टतुलया बघ्नानि सौवासने फूत्कृत्यापि गिरीन् नयानि गगने वायू रजोवद् रयात् ॥३६॥ , युग्मम् ॥ भो ! भो ! यात पलाय्य दृष्टिपथतो मां मा वमन्ध्वं हठा नो चेत् स्थेयमिह स्थिरैर्भवति यत् तद् दृश्यतां सम्प्रति । व्याहाधुर्मुनयो मुधात्मनि मदं धत्से विधत्से न किम् ? क्षान्ति ब्रूम इदं हिताय भवतो जानासि चेत् किञ्चन ॥३७॥ नो चेद् यन्ननु रोचते प्रकुरु तत् तावत् स्थिताः स्मो वयं योगिन्नुच्छलितोऽपि यत्न चणको भाण्डं प्रभेत्तुं क्षमः । क्रुद्धस्तद्वचसा विधाय विकृतं वक्त्रं स भीत्यावहं दन्तान् स्थूलतरानदीदृशदथो जान्वग्रजाग्रन्मुखान् ॥३८॥ किं नो भीषयसे तृणाय न वयं मन्यामहे त्वादृशं ___ व्याहृत्येति भयोज्झिता मुनिवरास्तत्पातसंसूचिनीम् । उद्गीर्य स्वकफोणिमुन्नततरां जग्मुस्ततः श्रीगुरो रभ्यणे जगदुश्च तद्गुरुरथो प्रोवाच सर्वान् यतीन् ॥३९॥ चेद् योगीह विभीषिकां विकुरुते मा भैष्ट तद् भो ! मनाक् त्राताहं वरिवमि वोऽथ वसतौ दोषागमे लक्षशः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy