SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ १०६ जैनस्तोत्रसन्दोहे | [ श्रीनयचन्द्र राज्यार्थिनां राज्यसुखप्रदाता सुतार्थिनां सन्ततिदायको यः । नेत्रार्थिनां लोचनदोऽस्ति नित्यं वन्दे सदा शङ्खपुरावतंसम् ॥९॥ इति स्तुतः श्रीमुनिचन्द्रसूरिणा कृपाकरः शङ्खपुरावतार ! । प्रबन्धकादौ प्रणतासुभाजां Jain Education International * प्रयच्छ नित्यं निजपादसेवाम् ॥ १० ॥ चपरिशिष्टम् श्रीनयचन्द्रसूरिविरचितं श्रीस्तम्भनपार्श्वनाथस्तवनम् । सेढीतटस्तम्भनकप्रतिष्ठः श्रीपार्श्वनाथः सुगुणैर्गरिष्ठः । पायादपायादलिनीलकायः सिद्धचङ्गनासङ्घटनाभ्युपायः ॥ १ ॥ तस्याहमुच्चैर्हरिशब्दवाच्यैः स्तोत्रं नवं षोडशभिर्विधास्ये । वाचां च तत्र प्रथमं निधास्ये यथाक्रमं ताश्च तथाभिधास्ये ||२|| हयवायु जनार्दनसिंहविधूरग भेककपीन्द्रशुकार्कयमैः । घृणिपिङ्गभवाम्बुधि नीलगुणैर्हरिशब्दभवैः प्रणवीमि जिनम् ॥३॥ जय मुक्तिमहापुरमार्गहरे ! जय विघ्नघटोघननाशहरे ! । जय मन्मथकैटभघातहरे ! जय मोहमतङ्गजभङ्गहरे ! ॥ ४ ॥ जय सङ्घसमुद्रविबोधहरे ! जय सप्तफणामणिकान्तिहरे ! | जय गाढजडत्वनिषेधहरे ! जय पापलताफलपातहरे ! ॥ ५ ॥ जय मानमहीधरदारहरे ! जय योगमहासहकारहरे ! | जय भव्यजनाम्बुजबोधहरे ! जय रागरिपुप्रलयैकहरे ! ||६|| For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy