SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ सूरिप्रणीतम् ] श्रीशङ्खश्वरपार्श्वनाथस्तवनम् । १०५ ङपरिशिष्टम् श्रीमुनिचन्द्रसूरिप्रणीतं प्रबन्धगतं श्रीशङ्खश्वरपार्श्वनाथस्तवनम् । समस्तकल्याणनिधानकोशं वामाङ्गकुदयेकमृणालहंसम् । अलङ्कृतेक्ष्वाकुविशालवंशं वन्दे सदा शङ्खपुरावतंसम् ॥ १॥ आराधितः श्री ऋषभस्य काले विद्याधरेन्द्रेण नमीश्वरेण । पूर्वं हि वैताढ्यगिरौ जिनं तं वन्दे सदा शङ्खपुरावर्तसम् ॥२॥ यः पूजितः पन्नगनायकेन पातालभूमौ भवनाधिपेन । कालं कियन्तं जिननायकं तं वन्दे सदा शङ्खपुरावतंसम् ||३|| यदा जरासन्धजयोयतेन कृष्णेन नेमीश्वरशासितेन । पातालतो बिम्बमिदं तदानीमानीय संस्थापितमेव तीर्थम् ||४|| ज्वरार्तभूतं स्वबलं विलोक्य यत्स्नात्रपीयूषजलेन सिक्तम् । सज्जीकृतं तत्क्षणमेव सर्वं वन्दे सदा शङ्खपुरावतंसम् ॥ ५ ॥ पञ्चाशदादौ किल पञ्चयुक्ते एकादशे वर्षशते व्यतीते । निवेशितः सज्जन श्रेष्ठिनायं वन्दे सदा शङ्खपुरावतंसम् ॥ ६ ॥ काले कलौ कामरावी प्रणष्टा चिन्तामणिः कल्पतरुश्च नष्टः । धत्ते ह्यसौ तत्प्रतिहस्तकत्वं वन्दे सदा शङ्खपुरावतंसम् ॥ ७ ॥ प्रभूतरोगेण विनष्टदेह आराध्य यं दुर्जनशैल्यदेवः । चकार देहं मदनस्य तुल्यं वन्दे सदा शङ्खपुरावतंसम् ॥ ८ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy