________________
मुनिप्रणोता] वर्द्धमानट्त्रिंशिका। तव जननक्षणे सुरगिरौ विशुद्धभावैः
__ स्वयमपि तैरधीश ! विबुधैरवापि शुद्धिः ॥ २८ ॥ प्रयाति भवति प्रभो ! सुरभवाद् विदेहोदरं
नितान्तमभितः श्रियो ववृधिरेऽयि पृथ्वीपतेः । व्यधत्त जिन ! वर्द्धमान इति तेऽभिधां ते न स
ह्यतुच्छतरमुन्महोत्सवविधि विधायामलम् ॥२९॥ विशुद्धे सिद्धार्थक्षितिपतिकुलेऽपाकृततमा
विराजिष्णुर्भासोदयशिखरिणीवेश ! तरणिः । तिरस्कुर्वन् दोषाकरमुदयमागास्ततमहा
जगच्चक्षुर्वीर ! त्रिभुवनगतार्थान् प्रकटयन् ॥३०॥ अमरहैरिणीनेत्रा देव ! स्फुरन्मणिकाञ्चना
__ भरणरुचिरा चेतो जहे न ते स्वकटाक्षितैः । प्रलयपवनैः क्षुब्धाशेषक्षमाम्बुधिभूधरै
स्त्रिदशशिखरिप्रस्थः क्षोभं प्रयाति कदापि किम्? ॥३१॥ आधिव्याधिव्यथितहृदया विस्मृतस्वस्वभावा
मन्दाक्रान्ता भविजनततिः पापकर्मामयेन । नानादोषप्रशमनकृता दायिना पुण्यपुष्टिं
शान्ति भेजे जिनवर ! भवन्नाममन्त्रौषधेन ॥ ३२ ॥ १ जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः । २ रसै रुदैछिन्ना यमनसभला गः शिखरिणी। ३ रसयुगहयैम्सौं स्लौ गो यदा हरिणी तदा । ४ मन्दाक्रान्ता मभनततगा गो यतिवेदषभिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org