________________
मुनिप्रणीता ]
वर्द्धमानषटूत्रिंशिका ।
स्याद्वादिनी सकलभावबन्धुरा तिर्यङ्मनुष्यसुरबोधनक्षमा । वाणी तवेश! हरतेऽङ्गिशंसयानायोजनं सुललितार्धमागधी ॥१५॥ स्रग्विणी मण्डली देव | देवासुराप्रेसराणां नमन्मौलिरिद्धादरा । प्रोल्लसद्भूषणोद्भासितस्वर्धरा पादपीठेऽलुठत् तेऽखिला भासुरा ॥ १६ ॥ भवारण्यसञ्चारिणामङ्गभाजां भवन्नाममन्त्रस्मृतौ तत्पराणाम् । त्रिलोकीश ! नेतनांहो भुजङ्गप्रयातं कदाचिन्न ही भीतये स्यात् ॥ १७ ॥ नरेन्द्रवंशस्थमुदारचेतसं विधूतदोषं च समस्तलक्षणम् । भवन्तमासाद्य शिवाङ्गना पतिं मतान्तरीयान् स्पृहयत्यपीश ! नो॥ १८ ॥ जिनसूर ! भवोर्जितगाढतमो दलयन् प्रतिबोधितभव्यकजः । नृसुरेन्द्रनतोऽट ककुब्विदितः प्रकटीकृतमोक्षपथो हृदि मे ॥ १९ ॥ द्रुतविलम्बितमन्थरयानया चकितया सुरदानवयोषिता। जिनपते ! त्वमशंसि जितस्मरः सुरगिरौ जननस्नपनक्षणे ॥ २० ॥ प्रमिताक्षरापि जिन ! ते त्रिपदी लघुरप्यहो प्रवरबीजसमा । समपीफलद् गणभृदात्मवने परितृप्तिभाग् जगदभूदखिलम् ॥२१॥ विश्वं परिभ्रम्य विषिण्णचेतसः स्थानान्तराभावत एव सद्गुणाः । सिद्धार्थ ! सिद्धार्थशुभाभिधानकपृथ्वीन्द्रवंशाभरण ! स्थितास्त्वयि ॥२२॥
१ झेया बुधैर्नु ललिता तभौ जरौ । २ रैवतुर्भिर्युता त्रग्विणी सम्मता । ३ भुजङ्गप्रयातं भवेद् यैश्चतुर्भिः । ४ जतौ तु वंशस्थमुदीरितं जरो । ५ इह तोटकमम्बुधिरैः प्रथितम् । ६ द्रुतविलम्बितमाह नभौ भरो । ७ प्रमिताक्षरा सजससैरुदिता । ८ स्यादिन्द्रवंशा ततजैरसंयुतैः ।
Jain Education International
For Personal & Private Use Only
६३
www.jainelibrary.org