________________
(४०६)
जैनस्तोत्रसन्दोहे।
चिदानंदनित्यंदवंदारुशक्रस्फुरन्मौलिमंदारमालारजोभिः । पिशङ्गौ भृशं गौरकीर्तेस्तवाघी गलल्लोभशोभाभिराम ! स्मरामः ॥ बहुधात्र सुधारुचिरैर्वचनैर्भवता भवतापभरः शमितः। अमितप्रसरद्गुणरत्ननिधे ! शरणं चरणौ तव तेन भजे ॥१०७॥ इति प्रथितविक्रमः क्रमनमन्मरुन्मण्डली
किरीटमणिदर्पणप्रतिफलन्मुखेन्दुः शुभः । जगज्जनसमीहितप्रणयनैककल्पद्रुमो
यशोविजयसम्पदं प्रवितनोतु वामाङ्गजः ॥ १०८ ॥
..
.
D.
MARATE
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org