SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ (४००) जैनस्तोत्रसन्दोहे। [श्रीयशोविजयस्फुरस्कैवल्यश्रीपरिणयनदिव्योत्सवमिव त्रिलोकीलुण्टाकस्मरजयरमाताण्डवमिव । सदा धामस्थामप्रसरमिव शंसन्नतितरां तवाकाशेऽकस्मात् स्फुरति पुरतो ' दुन्दुभिरवः । ॥४०॥ परं चिन्हं विश्वत्रितयजयदिव्यव्यवसितेः कृतव्यापत्तापत्रयविलयसौभाग्यनिलयः । धृतं हस्तैः शस्तैत्रिदशपतिभिः प्रेमतरलै भवन्मौलौ 'छत्रत्रय' मतितरां भाति भगवन् ! ॥४१॥ विलासो नारीणामिह खलु पराभूतिरुदिता प्रसिद्धा चान्येषां तव च परमोहव्यवसितिः । इदं सर्वं साम्यं तदपि तव तैर्नैव तुलनां सहर्ष भाषन्ते परमकवयः कौतुकमदः ॥ ४२ ॥ अपारव्यापारव्यसनरसनिर्माणविलय स्थितिक्रीडाव्रीडा न खलु तव विश्वे विलसति । न कोपं नारोपं न मदमदिरोन्मादमनिशं __न मोहं न द्रोहं कलयसि निषेभ्योऽसि जगतः ॥ ४३ ॥ भवेद् भूतावेशः परतनुनिवेशः कथमहो! परेषां संक्लेशः स्फुरति हि महामोहवशतः । न चेदेवं देवं यदि चपलयेनमरचना विलीना दीनासौ तदिह भुवनेऽधीरिमकथा ॥ ४४ ॥ त्वदौपम्यं रम्यं यदि हतधियो ! हन्त ! ददते परेषामुल्लेखात् प्रकृतहितदानस्य जगति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy