SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ ( ३८२ ) जनोस। [ श्रीयशीविजय मोहावृतानामपि शाखपाठोह हा महानर्थकरः परेषाम् । गैलुब्धस्य हि लुब्धकेभ्यो वधाय नूनं हरिणस्य कर्णौ ॥१४॥ समोदमो दानमधीतिनिष्ठा वृथव सर्वं तव भक्तिहीनम् । 'भावक्रियां नैव कविप्रबन्धो रसं विना यच्छति चारुबन्धः ॥१५॥ अन्तर्मुहूर्तं विहितं तपोऽपि त्वदाज्ञया देव । तमस्तृणेति । विना तु तां हन्त ! युगान्तराणि कथापि न क्लेशकृतां शिवस्य ॥१६ अज्ञानजं बन्धनमङ्गभाजां ज्ञानं विना देव! कथं व्यपैति । अधर्मजं जाड्यमुपैति नाशं न धर्मरश्मेहिं विना प्रतापम् ॥१७॥ न ज्ञानमात्रादपि कार्यसिद्धि विना चरित्रं भवदागमेऽस्ति । अपीक्षमाणः पदवों न पङ्गुर्विना गतिं हन्ता ! पुरं प्रयाति ॥ १८ ॥ संसारसिन्धाविह नास्ति किञ्चिदालम्बनं देव ! विना त्वदाज्ञाम् । तया विहीनाः परकटलीना हहा महामोहहताः पतन्ति ॥१९॥ महोषधी जन्मजरामयानां महार्गला दुर्गतिमन्दिरस्य । खानिः सुखानां कृतकर्महानिराज्ञा त्वदीयास्ति' जिनेन्द्रचन्द्र !॥२०॥ रागं च कोषं च न नाथ ! घरसे स्तुत्यस्तुतीनां च फलं प्रदत्ते । 'लोकोत्तरं किञ्चिदिदं त्वदीयं शीलं समाशीलितविश्वलीलम् ॥२१॥ त्वद्भ्यानबद्धादरमानसस्य त्वद्योगमुद्राभिनिविष्टबुद्धेः । तवोपदेशे निरतस्थ शश्वत् कदा भविष्यन्ति शमोत्सवा में ||२२|| अकुर्वतः सम्प्रति लब्धबोधिं समीहमानस्य परां च' बोधिम् । न साम्प्रतं किचन साम्प्रतं तर दयस्य दीनं परमार्थहीनम् ||२३|| निर्वेदमुख्यं च भवम्समेन नाथन्ति नाथं यतयो न चान्यम् । • सुधार्थमुचैर्विबुधाः सुधांशुं नाथन्ति नान्यं ग्रहमप्युदारम् ॥२४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy