SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। (१३) आसीद् द्विजन्माऽखिलमध्यदेशे, प्रकाशसङ्काश्यनिवेसजन्मा। . अलब्ध देवर्षिरिति प्रसिद्धिं, यो दानवर्षि वविभूषितोऽपि ॥१॥ शास्त्रेष्वधीती कुशलः कलासु, बन्धे च बोधे च गिरां प्रकृष्टः । तस्यात्मजन्मा समभून्महात्मा, देवः स्वयम्भूरिव सर्वदेवः ॥२॥ अब्जायताक्षः समजायतास्य, श्लाध्यस्तनूजो गुणलब्धपूजः। यः शोभनत्वं शुभवर्णभाजा न नाम नाम्ना वपुषाऽप्यधत्त ॥३॥ कातन्त्रतन्त्रोदितन्त्रवेदी यो बुद्धबौद्धार्हततत्वतत्त्वः । साहित्यविद्यार्णवपारदर्शी, निदर्शनं काव्यकृतां बभूव ॥४॥ कौमार एव क्षतमारवीर्यश्चेष्टां चिकी न्निव रिष्टनेमेः । यः सर्वसावधनिवृत्तिगुर्वी, सत्यप्रतिज्ञो विदधे प्रतिज्ञाम् ॥५॥ अभ्यस्यता धर्ममकारि. येन जीवाभिघातः कलयापि नैव । चित्रं चतुःसागरचक्रकाश्चिस्तथापि भूर्व्यापि गुणस्वनेन ॥६॥ एनां यथामति विमृश्य निजानुजस्य ___ तस्योज्ज्वलां कृतिमलङ्कृतवान् स्ववृत्या। - अभ्यर्थितो विदधता त्रिदिवप्रयाण . तेनैव साम्प्रतकविर्धनपालनामा ॥७॥ कवीश्वरस्यास्य सोमश्रीनाम्नी जननीति ज्ञायते सम्यक्त्वसप्ततिकावृतेः । उक्तं च तत्र सोमसिरी से भज्जा निरवजा वजिभजसमरूवा । जुण्हुव्व जीइ वयणं आणंदइ तिहुयणं सयलं ॥६॥ तिलकमञ्जरी नाम धनपालपुत्री, यन्नाम्ना प्रथिता तिलकमञ्जरी Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy