________________
सूरिविनिर्मिताः ] श्रीचतुर्विंशतिजिनस्तुतयः
प्रातस्तेऽद्वियी येन सरोजास्य ! समा नता । त्वयाऽस्तु जिनधर्मान्जसरोऽजाऽस्य ! समानता ॥ २ ॥ वन्दे देव ! च्युतोत्पत्तित्रतकेवलनिर्वृतिम् । विश्वार्चित ! च्युतोत्पत्तिव्रतके बलनिर्वृतिम् ॥ ३ ॥ चतुरास्यं चतुः कार्यं चतुर्द्धा वृषसेवितम् । प्रणमामि जनाधीशं चतुर्धावृषसेवितम् ॥ ४ ॥ जिनेन्द्रानञ्जनश्यामात् कल्याणाब्जहिमप्रभान् । चतुर्विंशतिमानौम्यकल्याणाब्जहिमप्रभान् ॥ ५ ॥ विलोक्य विकचाम्भोजकाननं नाभिनन्दनम् । द्रष्टुमुत्कायते कोऽपि काननं नाभिनन्दनम् || ६ ॥ भवानीश ! सदा यस्याजित ! निष्कोप ! नाथति ।
अहितो न हि तं स्वाभिजितनिष्कोपनाथति ॥ ७ ॥
अवचूरिः ।
सह मया - श्रिया या सा समा । हे अज ! - अजन्मन् ! | त्वया समानता ॥ २ ॥ च्युतोत्पत्तिः - गतजन्मा । व्रतस्य कं सुखं तस्य ई:श्रीः यस्य वला - पुष्टा निवृतिर्यस्य । ततो द्वन्द्वः । च्युतम् - च्यवनम् ॥ ३ ॥ वृषभैः - इन्द्रैः, देवानां चतुर्धात्वेन तत्स्वामिनामपि चातुविध्यम् । यद्वा देवानां वृषाण: 'ते लुग् वा' ( ३-२- १०८ ) इति देवपदलोपः । सह इया - श्रिया यः स से, अवितः - कान्तिमान ततो द्वन्द्वः ॥ ४ ॥ अब्जं - रक्तोत्पलमत्र ग्राह्यम् । चन्द्रः ॥ ५ ॥ श्रमणभावत्वेन लुञ्चितकेशम् । विकसितं वा । कनति वा - शोभते यत् तत् अम्भोज कन् ततो बहुव्रीहिः । उत्सुकः स्यात् ॥ ६ ॥ नाथ इव आचरति - योगक्षेमकारी भवति । दहेप्रभया । पीडयति ॥ ७ ॥
Jain Education International
( २४९ )
For Personal & Private Use Only
www.jainelibrary.org