________________
( २४६ )
जैनस्तोत्रसन्दोहे
[ ९६ ] श्रीवीरजिनस्तवनम् ।
जय श्रीसर्वसिद्धार्थ ! सिद्धार्थनृपनन्दन ! | सुमेरुधीर ! गम्भीर ! महावीर ! जिनेश्वर ! ॥ १ ॥ योऽप्रमेयप्रमाणोऽपि सप्तहस्तप्रमोपितः । पूर्णेन्दुवर्ण्यवर्णोऽपि स्वर्णवर्णसवर्णकः ॥ २ ॥ सदृशं कौशिके सक्रे सर्पे च क्रमसंस्पृशि । पीयूषवृष्टिसृष्ट्या यं दृष्ट्या दिष्ट्या विदुर्बुधाः ॥ ३ ॥ विष्टपत्रितयोत्सङ्गरङ्गदुत्तुङ्गकीर्त्तिना ।
[ श्रीधर्मघोष
सनाथं येन नाथेन विश्वं विश्वम्भरातलम् ॥४॥ यस्मै चक्रे नमः सेवाहेवाकोत्सुकमानसैः । वीराय गतवैराय मर्त्यामयसुरेश्वरैः ||५|| यस्माद द्वेषादयो दोषाः क्षिप्रं क्षीणाः क्षमाखनेः । दोषा पूषमयूखेभ्य इव हर्यक्षलक्षणात् ॥ ६ ॥ यद्देहद्युतिसन्दोहसन्देहितवर्षुदधौ ।
Jain Education International
रविः खद्योतपोतद्युत्याडम्बरविडम्बनाम् ||७|| भविनां यत्र चित्तस्थे स्युर्धीवृद्धिसिद्धयः । तं वर्द्धमानमानौमि वर्द्धमानसुभावनः ||८|| इति यस्ते वास्तवं पठति वीर ! जिनचन्द्र ! जातरोमाञ्चः । यात्यपवर्गं स द्रुतमखर्वगर्वारिवर्गजयी ॥९॥
For Personal & Private Use Only
www.jainelibrary.org