SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ सूरिविनिर्मितम् ] ज्ञानपञ्चमीस्तवनम् (२३९ ) विश्वप्रकाशकारणतरणिज्ञानम्तवेन संयुक्तम् । भक्तिभरभावितात्मा वक्ष्येऽहं पञ्चमीस्तवनम् ॥ २ ॥ क्रमतो मतिश्रुतावधिसुमनःपर्यायकेवलारव्यानि । ज्ञानानि पञ्च केवलिकथितानि सुदुर्लभानि नृणाम् ॥ ३ ॥ यस्मादेतेषु पुनस्त्रिकालमुपकारकरणकौशल्यात् । तद्वेदिभिर्गुरुतरं श्रुतं स्मृतं भव्यसत्वानाम् ॥ ४ ॥ तस्मादनवरतमिदं श्रयणीयं शुद्धबुद्धिभिः सम्यक् । अविशिष्टज्ञानानामवाप्तिहेतोर्विशिष्टानाम् ।। ५ ।। उत्पत्त्यादित्रिपदीरूपं त्रिजगद्धितं त्रिजगदीशैः । गदितं तृतीयनेत्रोपमं श्रुतं प्रकटितत्रिजगत् ॥ ६ ॥ प्रकृतिपरोपकृतिभरैः प्राकृतमयमिदमकारि गणभृद्भिः । नहि जलधिविपुलतरस्तरीतुमलमन्तरेण तरीम् ॥ ७ ॥ सर्पत्सदर्पकन्दर्पसर्पगरलोमिभिभि याद्भिः । अमरत्वमभिलषद्भिर्यदमृतमिव पायते भविकैः ॥ ८ ॥ किञ्च यदोमित्यक्षरभिवालरं लिप्सवः पदं विशदम् । करणत्रितयविशुद्धया विधिवत् ध्यायन्ति शुद्धधियः ॥ ९॥ . सुहृदयहृदयाकाशप्रचारिणा खरसमीरणेनेव । येनाहन्यन्त घनान्यधानि धनमण्डलानीव ॥ १० ॥ स्वस्वचरित्राकर्णनरसिकाश्चलितासनाश्चलाभरणाः । यस्मै विस्मितहृदयाः स्पृहयन्ति सुराः कृताञ्जलयः ॥ ११ ॥ यस्मात् समुल्ललासाऽतुलफलमिव कल्पपादपादवनौ । धर्मः कर्मक्षयकृन्निरुपमशर्मप्रदानपटुः ॥ १२ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy