________________
( २२६ ) जनस्तोत्रसन्दोहे [श्रीजिनप्रम
सत्तारकं मेघविरुद्धमस्तु सन्मङ्गलं सबुधजीवकाव्यम् । मोहारिभजिष्णुपदं जिनेन्द्रश्रुतं मुदे मन्दतमोवियुक्तम् ॥२९॥ जगद्रुहामृद्धिभरस्य दाता शयस्फुरद्भासुरहादिनीकः । प्रकर्षदो मोरसभावितानां पिपर्तु वंशं वरदो महेन्द्रः ॥३०॥
अवचूरिः। भद्रो-वृषभो भद्रा-गङ्गा वा तत्र रतः। ध्वस्त ऋतुस्तन्निरासकत्वात् । शिवा-गौरी तस्या लय-रतिम् । महेश्वरः-शम्भुरिति विशेज्यम् । सदा कपालं प्रतिपन्न: ॥२८॥
सता तारकम् । मे-मम अघं-विरुद्धं तदध्वंसित्वात् । सनिः बुधैर्जीवः काव्यं वर्णनीयम् । मोहरिभजनशीलानि पदानि यस्य । अमन्दाऽज्ञानावयुक्तम् । पक्षे शोभनतारकम् । मेधैः विशेषेण रुद्धम् । मङ्गल-बुध-जोव-काव्या ग्रहाः जीवकाव्यौ-गुरुशुक्रौ। चन्द्रमसाचन्द्रेण हारीणि भानि यस्मिन् । जिष्णुपदं व्योमेति विशष्यम् । शनिराहुभ्यामवियुक्त-सहितम् ॥ २९ ॥ - विश्वद्रोहिणां ऋद्धि भरस्य च्छेदक: 'दबिक् लवने' ( ) इतिधातुः शये-हस्ते स्फुरन्ती-भासुरा हादिनी-वनं यस्य स तथा । प्रहर्षदा उमा-कीतिः कान्तिर्वा यस्य । भक्तिमतां । वासवः। पक्षे. जगद्रुहो-वृक्षाः । 'अदीर्घाद् विरामैकव्यञ्जने' (सिद्ध० १।३।३२) इति दस्य द्वित्वम् । आशये लक्षणया मध्ये-स्थाने वा। हादिनीविद्युत् । मोरा-मयूराः उणादौ ओरप्रत्ययान्तो मोरशब्दः । तेषां सभायां आविताः-प्राप्ताः । शम्वरदो-जलदः । स पिपर्तु-पालयतु ॥ ३० ॥
॥ इतिश्री जिनप्रभसूरिकृतस्तवावरिः श्रीजयचन्द्रसूरिकृता ॥..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org