________________
( २१२ ) . जैनस्तोत्रसन्दोहे [श्रीजिनेश्वरमदनशासनशासनशासनः x x x x सुषमधीश्वर शान्तिरशान्तिहृद् रचयतादचिरादचिरासुतः ॥१६॥ रुचिरजातिरजातिमृतिक्षितिः क्षममनाममनाममनागपि । विबुधबन्धुरबन्धुरसौ रजः किरतु कुन्थुरमन्तुरमं तुद (तु !) ॥१७॥ प्रवररोचिररोचिररोचितप्रवरमोक्षरमोक्षतकेवलः । विसमदः समदः समदः परं नतिमतोऽतिमतो नयतु प्रभुः ॥१८॥ वरतमालतमालदलप्रभासततमा नतमानवदानवा । हरतु मल्लिरमाररमारजस्त्रिजगतः शरणं शरणं श्रियः ॥१९॥ निबिडमञ्जनमञ्जनंसप्रभ ! क्षपदमोक्षदमोक्षदयामृतैः । सुमुनिसुव्रत ! सुव्रतसज्जनाम्बुजसुमित्रसुमित्र ! सुमित्रभूः ॥२०॥ अकलिलः कलिलक्षविलक्षणः सकलमुत्पलमुत्पललक्षणः । गवि पदं विपदं विपदन्तकृन्नमिरमन्दरमं ददतां जिनः ॥२१॥ सुकविराजिविराजितसंसदा श्रुतमसन्तमसन्तमसं तदा । अशिवदं शिवदंब शिबाङ्गजं महत वै हतवैरनृपाङ्गजम् ॥२२॥ कलिकुमार्गकुमार्गनिरर्गल-द्विपरिपो ! ऽपरिपो ! परिपोषक ! । सुमहसोमहसोज्झित ! पार्श्व ! मांत्वमय विस्मय ! विस्मयकृद्वचः २३ भृशमदभ्रमदभ्रमदभ्रमप्रथमनः सुमनःसुमनः स्तुतः । असुमतः सुमतः सुमतोऽवदातपरमः परमश्चरमो जिनः ॥२४॥ . सुमहितानि हितानि वितन्वतां जिनपतेरमृतेरमृतेशितुः । च्युतिजनिव्रतकेवलकेवलप्रमदमोक्षदमोक्षमहांसि नः ॥२५॥ अवतु सजनसजनयप्रदस्थिरतरा गतरागरिपुर्जिनाः । . .. प्रभवतो भवतो भवतोऽवतो तमतरो मतरो मतरोदकृत् ॥२६॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org