SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ सूरिप्रणीतम् ] चतुर्विंशतिजिनस्तवनम् ( २११ ) सुजिनपञ्चम ! पश्चमरागजिन्मधुरनिःस्वन ! निःस्वनरार्थकृत् । इन ! नमो न न मोहमपास्यते वसुमते सुमते ! सुमतेऽत्र ते ||५|| अरुणसुप्रभसुप्रभ ! सुप्रभो ! भुवि नतामर ! तामरसाङ्कभृत् ! | धरधराधिपनन्दन! नन्दनस्तनु सुखानि सुखानिरसि श्रयः ||६|| शिवसुपार्श्वसुपार्श्व ! तमस्तमस्तपनकल्प न कल्पविलङ्घनः । कनककेतकविग्रह ! विग्रहच्छिदुर ! मेदुरमेध्य मे सुखम् ||७|| अपरिदेवन ! देव ! नदे वनस्फुरदघस्मरघस्मर सेवन: । किरत मोहतमोह शशिप्रभस्मित तुषारतुषारकरप्रभः ||८|| अनवमं नवमं नवमङ्गलं विदधतं दधतं च रुचिं शुचिम् । जिनमिह स्मरत स्मरतक्षणं सुविधिमार तमारततक्षणम् ॥९॥ दृढरथाङ्गज ! नन्दजनं दरप्रशमनं शमनं शमनस्तमः । दशमतीर्थ ! रागपरागतशमव शीतल ! शीतलले शमम् ||१०|| देवः श्रीमद्विष्णुविष्णुप्रसूतः कामं कामं ध्वंसमानः समानः । धर्मं दद्याद् धाम धामजस्य श्री श्रेयांसः श्रीसनाथः स नाथः ॥ ११ ॥ - विद्यां दद्यादप्रमादप्रमादक्लृप्तव्याधिक्षप्रसादप्रसाद ! । शोणाश्मश्रीसप्रभाव प्रभावस्तीर्थस्वामी वासुपूज्यः सुपूज्यः || १२ || ममदा मम दारितसन्नमन्नृभवलक्षवलक्षबलक्षमः । .शिवरमां वरमां कृतवर्मभूः (?) नय विभो ! विमलो विमलोज्ज्वलाम् १३ अमदनं मदनम्रसुरासुरखजनविभ्रमविभ्रमविभ्रमाम् । जिनमनन्तमनन्तमनन्तकप्रभुमनन्तमनङ्गजमर्चितः || १४ || कुलिशविद्रुममन्दममन्दिरं पिदधतं दधतं महिमाद्भुतम् । महत धर्ममधर्ममतच्छिदं गुरुमहोदमहोदमभूषितम् ॥१५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy