________________
सूरिविरचितम् ] युगादिजिनस्तवनम् स्तवस्तव जिनैकोऽपि तनोति सुरसम्पदम् । पुंसां नाथ ! प्रतिक्षिप्ता तनोऽतिसुरसं पदम् ॥ २९ ॥ वासवस्तुतपदो महामहा भक्तदत्तविलसं (यं) महापदः । वागपोहिततमस्तमा जिनस्वामिनो विदधतां सुखश्रियम् ॥३०॥ इति श्रीचतुर्विंशतिजिनस्तुतयः । कृतिरियं जिनपतिसूरीणाम् ॥
[ ८४ ]
श्रीदेवेन्द्रसूरिप्रणीतं श्रीयुगादिजिनस्तवनम् ।
जय देवाधिदेवाऽऽधिव्याधिवैधुर्यनाशन ! | सर्वदा सर्वदारिद्र्यमुद्राविद्रावणक्षम ! ॥ १ ॥ अगण्यपुण्य कारुण्यपण्यापण ! वृषध्वज ! | जय सन्देहसन्दोह शैलदम्भोलिसन्निभः ॥ २ ॥
Jain Education International
स्फुरत्कषायसन्तापसन्तापशमनामृत ! | जय संसारकान्तारदावपावकपावन ! || ३ ॥ सदा सदागमाम्भोजविबोधनदिनप्रभो ! ।
नत्वा न त्वा भवे भावि भाविनः पत्तनं खलु ॥ ४ ॥ ये देवदेव ! गम्भीरनामे ! नाभेय ! भूरिभिः । त्वद्गुणैः स्वं नियच्छन्ति ते मुक्ताः स्युर्महाद्भुतम् ॥ ५ ॥
૧૪
( २०९ )
For Personal & Private Use Only
www.jainelibrary.org