SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ( २०८) जैनस्तोत्रसन्दोहे [श्रीदेवेन्द्र येन त्वं नाञ्चितः कर्मवनवैश्वानरोपमः । सोऽरनाथः कुधीभव्यावनवैश्वानरोपमः ॥ १८ ॥ नाघ्रिपद्मस्तुतः सिद्धिप्रतिपन्नसदारुणः । .. येन ते भिद्यते मल्ले ! प्रतिपन्नसदाणः ॥ १९॥ .. श्रीसुव्रतजिनाधीशमक्षमालोपशोभितम् ।। विरश्चिमिव सेवध्वमक्षमालोपशोभितम् ॥ २० ॥ देव्योऽपि तद्गुणोद्गानासहा मन्दरसानुगाः । गायन्ति त्वां नमे ! भक्त्या सहामन्दरसानुगाः ।। २१ ॥ तृष्णातापा त्वया वर्ष शमिता दानवारिणा। श्रीनेमे ! जिन ! ताराध्यशमितादानवारिणा ॥ २२ ॥ पार्श्व ! देव्यः सदाक्लप्तमहाहारतरङ्गिताः । नाटयन्ति चरित्रं ते महाहारतरङ्गिताः ॥ २३ ॥ वोरो जिनपतिः पातु तन्वानः काञ्चनश्रियम् बिभ्रन्ननेषु निःसीर्मा तन्वा नः काञ्चन श्रियम् ॥ २४ ॥ गर्भजन्मव्रतज्ञानश्रेयःकल्याणकेष्वयम् । जिनश्चिनोतु भव्यानां श्रेयः कल्याणकेष्वयम् ॥ २५ ॥ भूत्यै भवन्तु जन्तूनां सत्पक्षाहितमानसाः । *हंसा इक जिनोत्तंसाः सत्पक्षाहितमानसाः ॥ २६ ॥ श्रयध्वं शासनं जैनं प्रौढपाठीनधीवरम् । वोढारमिव गङ्गायाः प्रौढपाठीनधीवरम् ॥ २७ ॥ डिम्बमम्बा हियादुद्यत्कलकण्ठीरवासिता। सिद्धबुद्धासित्ता कीा कलकण्ठीस्वासित्ता ॥ २८ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy