SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ विरचितम् ] श्री पार्श्वजिनस्तवनम् [ ८२ ] श्रीधर्मसूरिप्रणीतं श्रीपार्श्वजिनस्तवनम् । कस्तूरीतिलकं भुवः परिभवत्राणैककल्पद्रुमः श्रेयःकन्दनवाम्बुदस्त्रिजगतीवैडूर्य रत्नाङ्गदः । विघ्नाम्भोजमतङ्गजः कुवलयोत्तंसः स्ववंशश्रिया नेत्राणाममृताञ्जनं विजयते श्रीपार्श्वनाथः प्रभुः ॥ १ ॥ उत्सर्पन्नयमङ्गलैकनिलय ! त्रैलोक्यदत्ताभय ! प्रध्वस्तामय ! विश्वविश्रुतदय ! स्याद्वादविद्यालय ! । उद्दामातिशय ! प्रसिद्धसमय ! प्रक्षीणकर्मोच्चय ! प्रोन्मुक्तस्मय ! भव्यकैरववनीचन्द्रोदय ! त्वं जय ॥ २ ॥ ये मूर्ति तव पश्यतः शुभमयीं ते लोचने लोचने या ते वक्ति गुणावलीं निरुपमां सा भारती भारती । या ते न्यञ्चति पादयोर्वरदयोः सा कन्धरा कन्धरा (२०३ ) यत्ते ध्यायति नाथ ! वृत्तमनघं तन्मानसं मानसम् ॥ ३ ॥ किं स्नात्रैरलमङ्गरागविधिभिः कार्यं किमभ्यर्चनैः Jain Education International पर्याप्तं स्तुतिभिः कृतं प्रणतिभिः पूर्ण कलोद्गीतिभिः । वन्दौ तव चेच्चको युवतिप्रीतिं दृशोर्बिभ्रति स्वान्तं चेत्तव पादपङ्कजयुगे धत्ते लिलीलायितम् ॥ ४ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy