SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ www ~ ~ m सूरिविरचितम् ] अजितशान्तिजिनस्तवनम् (२०१) कासश्वासाङ्गहासादशननखमुखाक्षिक्षयग्रन्थिशोषा तीसारश्लेष्मापित्तज्वरपवनकटीकण्ठविष्टाग्रहाश्च । ज्वालावालेयलूताश्रवणजठरजाऽपानकुष्टाङ्गदाहा न स्युस्तस्यामया योऽजितमतिविनयान्नौति शान्तिं च भक्त्या।। तृष्णोष्णे न पयो न मारिरपि न द्वीपी न दन्ती च नो सिंहो न ज्वलनो न पन्नगभवा भीतिर्न भूतास्तु न । शाकिन्यो न विनायका न तु विषं नारातयो नाजयो न क्षेत्राधिपगोत्रपाः प्रतिभयं कुवन्ति तोस्तौति यः ॥८॥ यजन्मस्नात्रकृत्यक्षणमिलदमरश्रेणिराजैः सहर्ष कुम्भैः सच्छातकुम्भैरमृतघृतपयःपूरपूर्णैरपूर्णम् । स्वर्णाद्रौ कर्ममुद्राभिदभिमतपदप्राप्तुमेवाप्तकामैः स्नात्रं चित्रं पवित्रं निजनिजपरिषत्सङ्गतैः संव्यधायि ॥९॥ स्नानं विधाय विधिना सुकृतार्थता नः स्वर्गाधिपत्यपदवी सुरता च नीताः । इत्थं प्रमोदभरनिर्भरभाज्यमान गात्रा मुदा ननृतुरिन्द्रगणाः सदाराः ॥ १० ॥ शुचिसमयगमुत्थस्थूलकालाम्बुदाली स्तनितमधरयन्तो ध्वानतः किञ्चिदुच्चैः। मदमलिनकपोलालीनमत्तालिमाल "द्विरदपतितुरङ्गकाणमेके च चक्रुः ॥ ११ ॥ उत्फुल्ललोचनलसल्लघुलास्यलीला सस्मेरसस्मरमुखप्रजिताब्जभासः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy