SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ नेमि । जनस्तवनम् तेषां कुठार इव दूरनिबद्धमूलदुष्कर्मवल्लिगहनं सहसा च्छिनत्ति ॥ १ ॥ जय त्वं देवेश ! त्रिभुवनपते ! शान्तहृदय ! चार्यप्रणीतम् ] त्रिलोकीसङ्कल्पद्रुमवरकृपाकार ! वरद ! | समुद्धर्तुं मिथ्याजलधिलहरीतः क्षणमितो मयि द्रोणदीर्घा जिन ! सकरुणां निक्षिप दृशम् ॥ २ ॥ पूजापत्रचयैर्निरन्तरलसत्पत्रावलीमण्डितो नानावर्णसुगन्धिपुष्पनिकरैः सर्वत्र यः पुष्पितः । पादान्ते परिणामसुन्दरफलैः सम्भूषितः सर्वतो नेमिः कल्पतरुः सतामविकलं देयात् तदग्यं फलम् ॥३॥ आश्चर्यं भुवनैकभूषण ! भवान् कल्पद्रुमः पण्डितैः ( १९१ ) सिक्तो भक्तिजलेन तो(ते)षु कुरुते थो (क्षे ) माङ्कुरं यत् किल । एतस्मादपि चित्रमेतदपरं नेमे ! दुरापं सुरै रुचैर्यत् तदपि प्रशान्तमतिभिर्नः फलं प्राप्यते ॥ ४ ॥ उद्यन्मोहमहान्धकारतरणिस्त्रैलोक्यचिन्तामणि नित्यानन्दपदक्रयाणविपणिर्लोकाप्रभूषामणिः । निर्वाणैकपुरप्रयाणसरणिः सज्ज्योतिरेकारणी दिश्यान्नेमिजिनः स किङ्करसुरश्रेणिः सतां मङ्गलम् ॥ ५ ॥ धन्यैः कैश्चन धीरसंस्तुतगुणः पापैः पुनर्नन्दित Jain Education International Pre स्तुल्या तेषु तव प्रवृत्तिरिति ते श्लाघ्यैव नीरागता । तेषां यत् तु शुभाशुभेन घटना तत्रासि हेतुः कथं को जानात्यथवा जगत्त्रयपते ! तत्त्वं जिन ! त्वादृशम् ||६|| For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy