SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ wirwwwwwwwwwwwwwwww wwwwwwwwww सूरिविनिर्मितः] साधारणजिनस्तवाः (१८९ ) [७७ ] स्वातन्त्र्यश्रीपवित्राय परमब्रह्ममूर्तये । साधिताशेषसाध्याय नमो भगवतेऽर्हते ॥ १ ॥ त्रातस्त्वं त्राणमाधारः सम्पत्तिः प्राभवं गतिः । त्वमेव देव ! विश्वस्य विश्वस्याप्यस्य जीवितम् ॥ २ ॥ प्रशान्तपावनाकारे त्वयि येषामदेवधीः । येषां हुताशसङ्कल्पः पार्वणे श्वेतरोचिषि ॥ ३ ॥ न प्रसीदसि रागान्धे न कुप्यसि विरागिणि । शुभाशुभे तथापिस्तस्त्वत्तो रक्तविरक्तयोः ॥ ४ ॥ इदं ध्यानमयं योगः सा श्रद्धा सा च भावना । यदन्तः सततं त्रातस्त्वदाज्ञापालनव्रतम् ॥ ५ ॥ कामधेनुर्वशे तस्य कल्पद्रुस्तस्य किङ्करः । त्वं भवाम्भोधिमग्नस्य यस्य हस्तावलम्बनम् ॥ ६ ॥ कामाः कामममी तस्य पांशुदेश्याः सुमेधसः । शाश्वतानन्दमाशंसुर्यस्यासि त्वमधीश्वरः ॥७॥ तस्यास्य जन्मनः कुर्मों निजस्य कतिशो बलिम् । एकान्तश्रद्धतां प्राप यत्र नस्त्वयि मानसम् ॥ ८॥ तव स्तवनयोग्यायां यदि किश्चित् फलं ततः । त्वदन्यस्य गुणान् स्तोतुमाकाले स्यामवागहम् ॥ ९ ॥ तथा न चूडारत्नस्य जालैः किरणाश्चलैः । शोभते भालभूर्भूना त्वत्प्रणामकिणैर्यथा ॥ १० ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy