SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ जैनस्तोत्रसन्दोहे विश्वस्माद्विश्वतोऽन्यत्वं त्वत्तः पुनरनन्यताम् । य एव भावयेन्नाथ ! स एव शिवमश्नुते ॥ ८ ॥ अहं ममेति सम्मोहो येषां जीर्णस्तवोक्तिभिः । ( १८८ ) कृतिनस्ते न बाध्यन्ते स्वस्वकीयविपत्तिभिः ॥ ९ ॥ स्वाम्यं स्वतां च गच्छन्तस्ते विषीदन्ति किं बुधाः । भवद्वावाक्यसुधासारैर्येषामाई सदा मनः ॥ १० ॥ यत्पूर्वं पूजितो नासि न ध्यातो न च संस्तुतः । तेनास्मि पाप्मना प्राप्तस्त्रातः ! क्रूरेषु दासताम् ॥ ११ ॥ नास्म्यलं याचितुं किञ्चिल्लज्जमानः स्वपाप्मभिः । तथापि बोधिमाधेयाः कथञ्चित् कापि जन्मनि ॥ १२ ॥ तत्कर्म न कृतं किञ्चिदत्र जन्मनि शोभनम् । बोधिमात्रेsपि येनाशां हताशः करवाण्यहम् ॥ १३ ॥ न नाम संयमं प्राप्य न कृतं संयमोचितम् । तत् किञ्चन कृतं देव ! यत्पापस्यापि नोचितम् ॥१४॥ एकोऽहं देव ! दोषाणामशेषाणां महाखनिः । निवेदिते यथावस्तु साम्प्रतं यद् विधेहि तत् ॥ १५ ॥ स्वामिन्ननन्तफलकल्पतरोऽभिराम [ श्रीरामचन्द्र चन्द्रावदातचरिताश्चितविश्वचक्र ! | शक्रस्तुताङ्घ्रिसरसीरुह ! दुःस्थसार्थे देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ।। १६ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy