________________
सूरिविरचिताः] साधारणजिनस्तवाः
भूयसीभिः समुद्वेगं याश्चाभिर्नाथ ! मा कृथाः ।
पाल्यपालनकष्टा हि महीयःपदसम्पदः ॥ ११ ॥ संवरीतुं हृषीकाणि स्वस्वगोचरवर्त्मनः ।
ततो भवान् भवानेव ज्ञातुमौपयिकं क्षमः ॥ १२ ॥ तैस्तैः स्वकर्मभिर्यान्तं कृतान्तवदनोदरे । . स्वं स्वकीयं च शोचन्ति भवन्मार्गबहिर्मुखाः ॥ १३ ॥ पथा केन भवस्यास्य स्तोत्रमाघातुमुत्सहे । __ भ्राम्यतो यत्र लब्धोऽसि दुरापस्त्वं मया पतिः ॥ १४ । अनेहसे नमस्तस्मै सर्वकल्याणसंसदे । त्रातः ! स्यां यत्र निःशेषसङ्गभङ्गसमुत्सुकः ॥ १५ ॥ स्वामिन्ननन्तफलकल्पतरोऽभिराम
चन्द्रावदातचरिताश्चितविश्वचक्र ! । शक्रस्तुताघिसरसीरुह ! दुःस्थसाथै
देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥
[ ७५ ] रत्नत्रयनिदानाय दोषत्रयविनाशिने । ___ जगत्त्रयनमस्याय देवाय प्रणिदध्महे ॥ १ ॥ स नाम कां गतिं यायात् यस्ते हास्यादपि द्विषन् । __सोऽपि वा कां गतिं यायात् यस्ते हास्यादपि स्मरेत् ॥२॥ समूलकाषं कषतः स्वस्थान्यस्य च शात्रवम् ।
तवैव परमा प्रामुः प्रवृद्धिं शमसम्पदः ॥ ३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org