SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ सूरिविरचिता] प्रसादद्वात्रिंशिका (१५७) धन्याः सिद्धिप्रणयिनिपुणा () नर्व्यरत्नत्रिकामा भावं लब्ध्वा दधति यदहो विश्वलोकाग्रभूषाम् ॥१॥ संसाराब्धौ प्रकृतिविषमावर्तदुद्देशमूर्ती श्रेयः किञ्चित् कचन भविनां यत् कदाचित् कथञ्चित् । निःसन्देहं तदिह भुवनामेय ! वामेय ! देव ! त्वत्पादाब्जप्रणयकणिकाक्रीडितानां विवर्त्तः ॥ २ ॥ संभेदेन प्रसृमरनिजस्रोतसां तीर्थभूताः क्रीडापूताखिलवसुमतीमण्डला: केऽप्यमोघाः। मोक्षाय स्युर्भुवि तनुभृतामाश्रितानां यदेषां योगीश ! त्वच्चरणयुगलीपांशुसंसर्गलीलाः ॥ ३ ॥ यजिह्वानोज्झितजललवासङ्गतः कुष्टशान्ति र्यन्मूत्राम्भःपरिमलतया हेमतामेति लोहम् । अक्षीणत्वं दधति निधयो यत्करन्यासयोगात् __त्वद्योगश्रीपरिचयमृते तादृशस्ते कथं स्युः ? ॥ ४ ॥ यद् गाहन्ते तरणिकिरणालम्बनेनाम्बराग्रं यद्वर्षास्वप्यसलिलजुषः मातले सञ्चरन्ति । मध्येज्वालागहनदहनं यत् समाधि दधन्ते धन्याः केचित् तदखिलमदः खेलितं त्वत्प्रसत्तेः ॥ ५ ॥ अन्तःक्रीडाविपिनवसुधं बद्धकेलिक्रमो यत् यत्सन्मुक्ताप्रकरमरजः पुष्पवर्षं दधानः।। स्वःश्रीसङ्गं प्रथयति हरिः साप्सरः सन्निधानः स्वामिन् ! सोऽयं लवणिमकणस्त्वत्पदद्वन्द्वभक्तः ॥६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy