SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ wwwvon wwwmmmmmmmm सूरिविनिर्मिता'] श्रीयुगादिदेवद्वात्रिंशिका (१४७) भवक्लेशावेशाङ्कुश ! विशदलोकंपृणगुण कृपासिन्धोरन्यं क इव जिन ! जागर्ति भवतः । स्फुरभीष्मग्रीष्म-लपितजगतां कालजलदो विदम्भप्रारम्भः स परमगदङ्कारमहिमा ॥ ३२ ॥ [५७ ] श्रीयुगादिदेवद्वात्रिंशिका. युगादिदेवाय युगादियोगिने युगादिराजाय युगादिशिल्पिने । अपारसंसारपयोधिसेतवे नमो नमस्ते जिन ! मुक्तिहेतवे ॥ १॥ अलोकमाक्रामति यः सलीलया विशीर्णसीमार्गलमेकझम्पया। स एव ते वृत्तविशेषवर्णनाविधानसंरम्भपरः परं नरः ॥ २ ॥ बलिं व्रजामः कतिशः स्वयं वयं सुमेधसस्तस्य महेश ! वेधसः । भवद्गुणग्रामसमृद्धिशंसिनी चकार वाणी विदुषां मुखेषु यः ॥३॥ अजानतां भेदमुववुधांभसोः स्वयं स येषामभवद् भवान् गुरुः । अशेषसम्पत्तिविलाससम्पदां त्रिसन्ध्यमेषामहमानतस्त्रिधा ॥ ४ ॥ इमामशेषां प्रविभज्य काश्यपी यथायथं पुत्रशताय कल्पयन् । विधातुकामो विषयोपसंहृतिं व्यधत्त भूम्ना विषयान् कथं भवान्॥५॥ बभूव नैकोऽपि समुद्रमाश्रयन्नमुं प्रचेताश्च्युतपाशवैशसः । • भवन्तमाराध्य समुद्रशेखरं पुनर्विपाशाः कति न प्रचेतसः ॥ ६ ॥ नमोऽस्तु तस्मै भुवनोपकारिणे मनःप्रयत्नाय यथाप्रवृत्तये । सदाऽप्यनासादिततत्त्वविग्रुषो यतस्तवोक्तं स्पृहयन्ति जन्तवः ॥७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy