SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ विनिर्मितानि ] त्रिंशश्चतुर्विशतिकास्तवनानि (५७ ) भाविजिनाः सिद्धनाथं सम्यगाख्यं जिनेन्द्राभिधमाश्रये । साम्प्रतं च तथा सर्वस्वामिनं मुनिनाथकम् ॥ ९ ॥ विशिष्टापरनाथाख्यौ ब्रह्मशान्ति च पर्वतम् । कामुकं धामनामानं कल्पं संवरमाश्रये ॥ १० ॥ स्वस्थाऽऽनन्दौ रविचन्द्रं प्रभवं भावये हृदि । सन्निधिं च सुवर्णं च सुकर्माणं तथैव च ॥ ११ ॥ अममं पार्श्वनाथं च वरिवस्यामि शाश्वतम् । इति भाविजिना मक्षु मोक्षसौख्याय सन्तु मे ॥ १२ ॥ इत्थं द्वितीयभरतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्युः श्रीसङ्घतिलकश्रियम् ॥ १३ ॥ तृतीयभरतस्तवः ॥३॥ अतीतजिनाः वृषभं प्रियमित्राख्यं शान्तनुं सुमृदुं तथा । . अतीतमव्यक्त-कलाशत-सर्वजितः स्तुवे ॥ १ ॥ प्रवृद्धं प्रव्रजिताख्यमीडे सौधर्मनामकम् । तमोऽन्धद्वीपवज्रेशौ बुधनाथं प्रबन्धकम् ॥ २ ॥ अतीतस्वामिप्रमुखैः पल्योपममकोपनम् । निष्ठितं मृगनाभिं च हृदयान्तरहं वहे ॥ ३ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy