________________
( २८ )
जैनस्तोत्रसन्दोहे
[श्रीसोमप्रभा
[११] श्रीसोमप्रभाचार्यविनिर्मितम् श्रीजिनस्तवनम् ।
व्यधित साधितसाधुतपाः कृपां शमघनामघनाशकरी च यः तमविरामविराद्धमनोभवं जिनममानममानगुणं स्तुवे ॥ १ ॥ विभवदं भवदचिसरोरुहं नमति यो मतियोगपरः प्रभो ! । स हतमोहतमो गतमत्सरः समतया मतया परिरभ्यते ॥ २ ॥ जिन ! तवाऽऽनतवासवसंहते ! भुवनपावन ! पादपयोरुहे । कलितयालितया समवायते शमधुरा मधुरा मधुवजनैः ।। ३ ।। शुभवतो भवतो वचसि श्रुते शमदमे भदमेघसमीरणे । अवमतां वमतां भविनां विभो ! परमते रमते न मनाग मनः ॥४॥ दममता ममतामयभावनावनघनाघन ! नाथ ! तवागमात् । मम भवामभवा सपदि क्षयं विपदवाप दवानलसोदरा ॥ ५ ॥ विमलकोमलकोकनदारुणकमतलो मतलोभहतिर्जिनः । रुचितताचितताररदः सतामवमभावमभाग्यपदं हतात् ॥ ६॥ भवशतावशतार्तसुरासुरव्रजनतो जनतोषकरः प्रभुः । स्मरविकारविकाशविबन्धकः सममना मम ना जयतादधम् ॥७॥ घनतपा नतपाकरिपुर्जिनो विधुरसिन्धुरसिंहसहोदरः । विषमदोषमदोत्खननक्षमः शममयो मम योगमतिं क्रियात् ॥ ८ ॥ शुभवचा भवचारकमोचनः समदयो मदयोधजयी जिनः । मदनसूदनसूचितविक्रमः प्रवरसंवरसन्ततये स्तुवे ॥ ९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org