________________
wwwwwww
सूरिप्रणीतम्] सर्वजिनसाधारणस्तवः सरसि सरसिजौघः सारसौरभ्यगेहं
मलिनमलिनमुच्चैर्वञ्चयेत् किं कदाचित् ? ॥५॥ यमनियमनिकेते किं त्वयि स्फूर्जमाने
मनसि मनसिजस्य स्फूर्तिरुत्कीर्तनीया । पतति पतति सर्पदर्पसर्पान्तकाले
विषमविषमहिम्नां कः प्रकाशो जिनेश ! ॥६॥ हरसि हरसिताभिः सूत्रितज्ञानलक्ष्म्या
नयन ! नयनभाभिस्त्रातरज्ञानपङ्कम् । तमसि तमसितिन्ना लोकमाक्रान्तमिन्दुः __करनिकरनिपातैः किं न शुभ्रीकरोति ? ॥७॥ नवरनवरवासौकस्यदोषान्धकारे
___दनवदनवलक्षा देशनोर्वी मुदे स्यात् । विधुतविधुतनुत्वा शारदी पौर्णमासी • वनपवनपरीता मोदयत्येव देव ! ॥ ८ ॥ नयविनयविवेका (या) स्त्वद्वचःपावितानां
__ न मदनमदमोहानिमायान्ति नेतः !। तिरयति रयमुच्चैलोचनालोकलक्ष्म्या
रविकरविकलानामन्धकारप्रचारः ॥ ९ ॥ भवति भवतितीर्नाथ ! नाभव्यजन्तु
र्बत ततततवाचाऽप्यत्र कस्तेऽपराधः । धुरि मधुरिमभाजां नूनचूताङ्कुरास्ते
_कमपि कमपि वाणीसौरमं लम्भयन्ति ॥ १० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org