SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ (११) एतादृशानां कीटातिथीभूतप्रायाणामुपयुक्ततरस्तोत्राणां संपादने संशोधने च साहित्यसौहित्यवद्भिर्मुनिप्रवरश्रीचतुरविजयैर्महोदयैः प्रयत्नः कृतस्तदर्थ ते शतशो धन्यवादानहन्ति जगताम् । तल्लिखिता प्रयाससाध्या महती प्रस्तावनाऽपि स्तोत्रकर्तृणां संक्षिप्तचरित्राणि परिचाययति। पश्चाद्भागेऽद्यावधिसर्वत्रमुद्रितानां ज्ञातानां जैनस्तोत्राणां सूचीप्रदानेन संशोधकानां कृते सौकर्य कृतमस्ति । स्तोत्राणां विषमस्थले टिप्पणी दत्ताऽभविष्यत्तदा वरमभविष्यत् । एतादृशप्राचीनसङ्ग्रहग्रन्थो यदि राजकीयमहाविचालयेषु ( University ) पाठ्यग्रन्थत्वेन नियुक्तो भवेत्तदा छात्राणां महानुपकारो भवेत् एतादृशस्य सुन्दर ग्रन्थस्यप्रकाशने कृताऽविरतयतनः श्रीयुत साराभाई नवाबेतिनामा साहित्यप्रेमी श्रावकवर्यः शतशो धन्यवादानां पात्रमिति मन्ये । श्रीगौतमस्वामि-पद्मावतीदेव्योतिरङ्गचित्राभ्यां अष्टभिर्यन्त्रैश्च समलङ्कृतस्यास्य पण्यं रुप्यक पंचकं नाधिकम् ।। सं० १९८८ ) दोपालिकायाम् उज्जयिन्याम् ) विदुषां वशम्वदः मुनिहिमांशुविजयः (' अनेकान्ती') Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy