________________
(१०) जैनस्तोत्रसंदोह-समालोचना ।
जैनस्तोत्रसन्दोहं ग्रन्थं दृष्ट्वाऽतितरां मोदते मे मानसम् । अत्र ग्रन्थे प्रसिद्धपाण्डित्यानां श्रीहेमचन्द्र-रामचन्द्रा-मरचन्द्र-हरिभद्रजिनभद्र-भद्रबाहु-धर्मघोष-धनपाल-श्रीपालप्रमुखाणां तपाखरतरादिगच्छीयानां कवीनामद्यावधि-अमुद्रितान्यश्रुतदृष्टनामानि स्तोत्रादीनि संगृहीतानि दरीदृश्यन्ते ।
अर्हन्नामसहस्र-अष्टोत्तशतनामसरस्वतीप्रमुखस्तोत्राणि कोषेतिहासदृष्ट्या,त्रिंशचतुर्विंशतिकास्तव-द्वादशाङ्गीपदप्रमाणकुलकादीनि धमसाहित्येतिहासदृष्टया,वीरस्तवाऽऽदिस्तवप्रभृतीनि द्विभाषासंकरदृष्टया, रामचन्द्रविरचितापहनुत्यर्थान्तरन्यासव्यतिरेकदृष्टान्तद्यलकाराल कृतानिकाव्यालङ्कारदृष्टया, महावीरकलशादीनि अपभ्रंशभाषादृष्टया, खपरिशिष्टस्थितवर्द्धमानषट्त्रिंशिका छन्दआनन्ददृष्टया, ग-धपरिशिष्टगतपमावत्यष्टक-उवसग्गहरस्तोत्रवृत्तिद्वयंदेउलवाडामण्डनयुगादिदेवस्तवनंच मन्त्रप्रभावविधिदृष्टया नानासाहित्यविषयरुचीनां कवीनां सच्चेतसां चेतांसि कुमुदबन्धुयुतय इव कुमुदानि; आनन्दयिष्यन्तीति मामकी मतिः। ___अत्र ग्रन्थे क्वचित् पदलालित्यं, कुत्रचित् छन्दोनन्दनम् , कुत्रचिद् रचनारामणीयकम् , क्वाऽपि गुणालङ्कारविज़म्भणं, क्वचन रसविकासः, कुत्रचन चित्रकाव्योल्लासः, कुहचन भक्तिव्यक्तिः, कुत्राऽपि च कविताप्रकाश उल्लसतितरोमिति कः खलु कोविद एनं ग्रन्थं समीक्ष्य सानन्दहृदयो न भविष्यति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org