SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना । ( ९३ ) श्रीमतो विद्याध्ययनार्थ काशी (वाराणसी गमनोल्लेखः । तत्र च विलोक्याप्रतिमप्रतिभाप्राग्भारमस्य प्रमुदितचेतस्का विबुधावतंसास्तत्रत्या विभूषयाञ्चकुः श्रीमन्तं 'न्यायविशारदे' पदेन पूर्वं ग्रन्थशतीविरचनानन्तरं च न्यायाचार्यपदेन । यदाह स्वयमेवपूर्वं न्यायविशारदत्वबिरुदं कारयां प्रदत्तं बुद्धैन्यायाचार्यपदं ततः कृतशतग्रन्थस्य यस्यार्पितम् । " तर्कभाषाप्रशस्तौ । सं. १७४४ प्रतिक्रमणगर्भहेतुः "" सं. १७४५ श्रीयशोविजयोपाध्यायस्य स्वर्गवासः । शान्तसुधारसभावना विनयवि • लोकप्रकाशः विनयवि० सं. सं. अतः श्रीविनयविजयेन समं काशीगमनं प्रतिभात्यघटमेव, किन्त्वेनमध्यापयितुं काश्यामवसन् सद् गुरव एवास्य श्रीनयविजयविज्ञाः । यदुक्तं श्रीमतैव द्वात्रिंशद् द्वात्रिंशिकायाम् — प्रकाशार्थ पृथ्व्यास्तरणिरुदयाद्रेरिह यथा यथा वा पाथोभृत् सकलजगदर्थे जलनिधेः । तथा वाराणस्यां सविधमभजन् ये मम कृते सतीर्थ्यास्ते तेषां नयविजयविज्ञा विजयिनः ॥ १ अत्र किंवदन्ती त्वेवम् समीयाय कश्चिदितरदेशीयः पण्डितप्रकाण्डो विजेतुं वाराणसीयान् विदुषः, पराजितेषु सर्वेषु समासाद्य स्वकीयविद्यागुरुवरादेशं विशदं स्याद्वादपद्धत्या निरलोठयत् तं श्रीमान् वत्रे च जयपताकां ततः प्रमोदभरमेदुरा व्यश्राणयन् विपश्चितोऽस्मै बिरुदमेतत् । , Jain Education International "" ― For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy