SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना । (४०) श्रीविजयप्रभसूरिः । सुगृहीतनामधेय श्रीविजयही रसरिपट्टपद्माकर प्रबोधनैकतरणिश्रीविजयसेनमूरि-श्रीविजयदेवसूरि - श्री विजयसिंहसूरिपट्ट विभूषकः सूविर्योऽसौ । (८७) जैनगूर्जरकाव्यसञ्चयान्तर्मुद्रित - विमलविजयविरचितश्रीविजयप्रभसूरिनिर्वाणसज्झायाऽनुसारेण विक्रमतः सं. १६७७ वर्षे माघ शुक्ल १९ दिने कच्छदेशे मनोहरपुरे ओशवंशभूषामणिश्रेष्ठिवर्यशिवगण सधर्मचारिणीभाणीकुक्षौ श्रीमतो जन्भ । नववर्षदेशीयः सं. १६८६ वर्षे श्री विजयदेवसूरिपार्श्वे जग्राह दीक्षाम् । वीरविजय इति पप्रथे नाम । सं. १७०१ वर्षे पं. पदम् । सं. १७१० वर्षे वैशाखशुक्लदशम्यां गान्धारनगरे सूरिपदम्, ततो 'विजयप्रभरि रिति प्रसिद्धिः । 1 " वरिवर्त्ति सं. १७१३ वर्षे पूज्यपादप्रतिष्ठिता स्तम्भतीर्थे माणेकचोकस्थश्रीपार्श्वनाथजिनालये श्रीविजयदेवसूरेः पादुका, यदर्थं विलोक्यतां जैनधातुप्रतिमालेखसङ्ग्रहस्य द्वितीयविभागे १७० तमे पृष्ठे मुद्रितो ४८ सङ्ख्याको लेखः । इहैव पृ. ३५ मुद्रितश्री देवपत्तननिवासिजिनस्तवनातिरिक्ता १ श्रीमद्विजयानन्दसूरिविनिर्मिते जैनतत्वादर्शग्रन्थे सं. १६७५ वर्षे जन्म, सं. १६८९ वर्षे दीक्षा सं. १७०१ वर्षे पंडितपदम्, सं. १७१० वर्षे उपाध्यायपदम्, सं. १७१३ भट्टारकपदम् । सं. १७४९ वर्षे स्वर्गमनं दर्शितमस्ति । ' जैनगूर्जरकविओ ' द्वितीयविभागे पट्टावल्यन्तरानुसारेण ' कच्छदेशे वराही ग्रामे जन्म, सं. १७४९ वर्षे ज्येष्ठ सुदि १२ ऊना ग्रामे स्वर्गवासश्व प्रादर्शि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy