________________
R
ELAXXSAX
पतया सङ्ग्रह्मन्ते अनेनेति सङ्ग्रहः अथवा संगृहीतं पिण्डितं तदेवार्थोऽभिधेयं यस्य तत् सङ्गृहीतपिण्डितार्थ एवंभूतं वचो यस्य सङ्ग्रहस्येति सङ्ग्रहीतपिण्डितं तत् किमुच्यते इत्याह संगहिय मागहीयं संपिडियमेगजाइमाणीयं ॥ संगहियमणुगमो वा वइरे गोपिंडियं भणियं ॥१॥ सामान्याभिमुख्येन ग्रहणं सगृहीतसङ्ग्रह उच्यते, पिण्डितं त्वेकजातिमानितमभिधीयते पिण्डितसङ्ग्रहः अथ सर्वव्यक्तिष्वनुगतस्य सामान्यस्य प्रतिपादनमनुगमसङ्ग्रहोऽभिधीयते व्यतिरेकस्तु तदितरधर्मनिषेधाद् ग्राह्यधर्मसङ्ग्रहकारकं व्यतिरेकसङ्ग्रहो भण्यते यथा जीवोजीव इति निषेधे जीक्सङ्ग्रह एव जातः अतः १ सङ्ग्रह, २ पिण्डितार्थ, ३ अनुगम, ४ व्यतिरेकभेदाच्चतुर्विधः अथवा स्वसत्ताख्यं महासामान्यं संगृह्णाति इतरस्तु गोत्वादिकमवान्तरसामान्यं पिण्डितार्थमभिधीयते महासत्तारूपं अवान्तरसत्तारूपं “एगं निच्चं निरवयवमकियं सवगं च सामन्नं * एतत् महासामान्यं गवि गोवादिकमवान्तरसामान्यमिति संग्रहः ॥
____* एकं सामान्य सर्थन तस्यैव भावात् तमा नित्यं सामान्य अविनाशात्तथा तिरक्य अदेशस्वात्, अक्रिय देशान्तरगमनाभावात् सर्वगतं व सामाग्ध | अक्रियरवादिति ॥