SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ परिहृतो 'मिध्यात्वदोषो' विपर्य्ययः तद्द्बोध (विपस्तबोध) कृतश्राद्धादिक्रियाविधानलक्षणं दूषणं यैस्ते तथा, नहि मिथ्यात्व - | लेशेनापि स्पृष्टमनुष्ठानं सफलं भवतीति विशेषणत्रयोपादानम्, एवंविधाश्च सन्त एवं कालं व्यतिक्रमयतेति सम्बन्धः कीदृशाश्च सन्तः ? इत्याह-'साधूनां' सुविहितानां' पादसेवा' निरन्तरं तच्चरणपर्युपासनम्, एतस्या एव समस्तोत्तरक्रिया कलापनिबन्धनत्वात्, पदान्तरापेक्षत्वेऽपि क्वचित् समासः, इति माधूनामिति भिन्नपदत्वेऽपि न दोषः, तथा 'जिनमतस्य' तीर्थकरागमस्य 'श्रवणम्' आकर्णनं, 'चिन्तन' श्रुतस्य मतोऽधिगतौ पुनः पुनरनुप्रेक्षणं, पादसेवा च जिनमतश्रवणानुचिन्तनं चेति समासः, चकारद्विर्भावः प्राकृतत्वात् तेषु 'आक्षिप्तम्' आसक्तं चित्तं येषां ते तथा, कचित् श्रवणे चिन्तने चेति व्यस्तपद एव पाठः, अत्र पादसेवेति पदं लुप्तसप्तम्येकवचनं द्रष्टव्यम् इह च जिनमतश्रवणानुचिन्तनाभ्यां तत्पूर्विका सम्यक्रियापि उपलक्ष( क्ष्य) ते, ततः सादरं संपूर्ण सुश्राचकानुष्ठानानुष्ठातारः सन्तः, स्वकीयं 'काल' जीवन समयमेवं व्यतिक्रमयत अतिवाहयत, 'नित्यं' सर्वदा नतु कदाचि देव, एवं हि भवतां सामग्रीलाभसाफल्यं स्यादिति भावः किमित्येवमादरनैरन्तर्याभ्यामनुष्ठाने प्रवर्त्यत इत्याह- 'पुनरपि' एतज्जन्मानन्तरं भूयोऽपि 'दुर्लभा' दुःप्रापा 'धर्मसामग्री' विशुद्धपरिपूर्णसदनुष्ठान कारणसामय्यभावः एवेति, मानुष्यादिधर्मश्रवणश्रद्धानपर्यन्ता, अयमभिप्रायो- यदि हि संप्रति एषा लब्धा सदनुष्ठानेन सफलीक्रियते, तदा न भूयोऽपि अस्या लाभः संभाव्यते, तथा चोक्तमुपदेशमालायाम् - "लद्धिल्लियं च वोहिं अकरेंतो अणागयं च पत्येतो । अनिंदाई बोहिं लज्झिसि कयरेण मुल्लेणं ॥१॥" अन्यत्रापि उक्तम्- “धर्मसाधनविधेः समग्रता हारिता क्व नु पुनर्मिलिष्यति । किं मिलन्ति पुरुषप्रयत्नतः सूक्ष्मरेणुकणिका रोद्धताः ॥ २॥” इति ननु यथा एकदा प्राप्ता तथा काकतालीय न्यायेनापि कदाचित् प्राप्स्यत इत्याह- 'भूयः' पुनरपि वंशनान 199
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy