SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ तदेवम् उभयेषामपि लिङ्गिनां कुतीथिकानां च वर्जनेन धर्मप्रवृत्युपदेशमाहता भूरिकुमाह-कुतिस्थि-कुदेसणाउ, सुच्चा वि निच्चमचला जिणधम्ममग्गे। भो ? लग्गहुन्झियकुधीभयसंकलज्जा, एवं च होहिह सुधम्महिगारिणु त्ति ॥१०॥ व्याख्या-यतो लिङ्गिनः कुतीथिकाच संसर्गेणापि महानर्यकारिणः, 'ता' इति ततस्तस्माद् 'भूरयः'प्रभूताः 'कुंग्रहा' अभिनिवेशा येषां ते भूरिकुग्रहा लिङ्गिप्रभृतयः, तथा 'कुतीथिका' बौद्धादयः ततो भूरिकुमहाश्च कुतीथिकाश्चेति द्वन्दः, ततस्तेपाम् उभयेपामपि, अथवा भूरिकुग्रहाश्च ते कुतीनिश्चेति तेपा 'कुदेशना' असत्प्रवृत्तिहेतवः संप्रति सर्वथा विधिधर्माभावश्राद्धादिविधानप्रभृतय उपदेशाः, ताः 'श्रुत्वापि' आकापि, अपिशब्दस्तच्छुतेरसत्प्रवृत्तिसामर्थ्यमुपदर्शयति, एवमपि भोः श्राद्धा! यूयं 'लगत' सादरमनुषक्ता भवत, केत्याह-जिनधर्ममार्गः' तीर्घकृत्प्रणीतसुश्रावकसमाचारस्तन, कीदृशा लगत? इत्याह-निश्चला(अचला) धर्माप्रतिपातिमानसान तु कुलिङ्गिकुतीथिकादि दुर्देशनाश्रुतिसन्दिग्धचित्ताः, 'नित्यं सर्वदा, पुनः कीदृशा ? 'उज्झितकुधीभयाकालज्जा' तत्र कुधीलिंझिप्रभृतिदुर्देशनाजनिता कुत्सितबुद्धिः, भयशंकालज्जास्तु पूर्वव्याख्याताः तत्त उज्झिताः त्यक्ताः कुधीभयशंकालज्जा यैस्ते तथा. हस्वत्वं प्राकृतत्वात् । 'एवमिति एवमेवेत्यर्थः, 'भविष्यथ' संपत्स्यध्वे यूयं, क्वचिदेवं 'हीति' पाठस्तत्र हिशब्दोऽवधारणे द्रष्टव्यः, कीदृशाः? 'सुधर्माधिकारिणः', संप्रति तावत् शोभनद्वादशवतादिरूपसुश्रावकधर्मयोग्याः क्रमेण च सुसंयतधर्मयोग्या अपि, इतिशब्दः परिसमाप्तौ, तदेवं कुदेशनया येपां मनो न वास्यते त एव सुश्रावका इति। दशस्वपि एषु वृत्तेषु वसन्ततिलका च्छन्द इति वृसार्थः॥१०॥ 189
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy