SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ भ्रमिताः सन्तो 'मार्ग' शुद्धविधिधर्मपथमिति, अथवा मार्गम् अनेकान्तवादलक्षणं तत्सैव प्रामाणिकत्वात् तद्विपरीतैकान्तवादसाधने हि ये हेतवः ते सर्वेऽपि असिद्धत्वादिदोषदृष्टा एव तथा चोच्यते- "प्रसिद्धः सिद्धसेनस्य विरुद्धो मलवादिनः । उभयं समन्तभद्रस्य हेतुरेकान्तसाधने ॥ १ ॥ इति, तं मागं ताविकमोक्षयं त्यजन्तीति, के इत्याह-'जना' मुग्ध४ लोकाः 'स्वमत्या' आत्मीयबुद्ध्यैव कीदृशाः सन्त इत्याह- भावि भविष्यत् संपत्स्यमानं भद्रं सुगतिलाभादिलक्षणं कल्याणं येषां ते तथा, न तादृशा अपि तु अभाविभद्राः, तत् किं सर्वेऽप्येत्र ? नेत्याह-पायों बाहुल्येन, मुग्धा हि निर्विचारकाः केचिद् अन्ये तु प्रगल्भ निमानि गृह्णन्वेति वृत्तार्थः ॥ ८ ॥ उक्त लिङ्गिवेष्टितम् अथ कुतीर्थिकचेष्टितमाह و मिच्छन्तछन्न पडिकप्पियजु निहीण-नाणाकुसत्थमयमूढकुतित्थियाणं । दुवासणाविनडिया पडिया बले ही, जीवा कयाइ न भवंति भवंतगामी ॥ ९ ॥ व्याख्या-कुतीर्धकानां वशे पतिता जीवा भवान्तगामिनो न भवन्तीति योगः कीदृशानामित्याह - 'मिथ्यात्वच्छश्वानि' विपर्य्यस्तज्ञानान्तरितानि तन्नर्भाणीति यावत् 'इत्तेति पाठपक्षे तु मिथ्यात्वमेव सज्ज्ञानालोकाच्छादकत्त्वात् छत्रमातपत्रं 'येषु तथा 'प्रतिकल्पितानि' प्रमाणमन्तरेण स्वयमुत्प्रेक्षितानि तदर्थानामुत्प्रेक्षितत्वादिति भावः, तया 'युक्तिहीनानि' उपपत्तिविकलानि, अत्रापि तदर्थानां तथात्वादिति भावः, ततो मिय्यात्वच्छन्नानि च तानि प्रतिकल्पितानि युक्तिहीनानि चेति 187
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy