________________
ब्रा०कु० १४
सन्तस्तमिति विमर्श, सदा सर्वदा संस्थापयत व्यवस्थापयत, भोः श्राद्धाः ? क्वेत्याह- 'निजः' स्वकीयो यो विषयश्चैत्यवन्दनादिरूपः तस्य 'विभागो' विशेषः तत्र अयमभिधानःसंकोयीही भोगसुर्वणनिवणे । मुत्तुखारं जूयं वज्जइ जिणमंदिरस्संतो ॥ १ ॥" इत्यादिकं श्रुतं विधिचैत्यादिविषयमपि आजीवकादिभयात् केचिदन्यथा व्याचक्षते, अन्ये तु - पाण्डित्यमदात् अपरे तु मायया चेतस्यन्यथा परिणामेऽपि विधिपरायणश्राद्धरञ्जनार्थमिति, केचित्तु कस्यचिद् विधिप्ररूपकस्य मत्सरेणान्यथा प्रदर्शयन्ति, ततश्च भवद्भिरेतच्चतुष्टयपरिहारेण मध्यस्थभावेनैव विचार्य व्यवस्थापनीयं । तथाहि--"अडमी चउदसीसुं सबे वि चेइयाई वंदेयवाई । सबे य सुसाहुणो ति ॥ १ ॥ एतच्छ्रवणादष्टमीचतुर्दश्योरेव साधूनां चैत्ये चैत्यबन्दनं युक्तमित्याहुः, तच्चायुक्तं यतः- “पडिकमणे चेइहरे भोयणसमयम्मि तह य संवरणे । पडिकमण सुयणपडिवोह | | कालियं सत्तहा जइणो ॥ १ ॥” इति वचनात् साधोः प्रतिदिनमेव चैत्ये चैत्यवन्दनविधानमभिहितमिति यच्च चतुर्दश्यष्टम्योभ्यैत्यवन्दनमभ्यधायि, तत्सर्व चैत्यसर्वसाधूनां वन्दनमिति विशेषे व्यवस्थापनीयम् । एवं- "धुव लोडयजिणाणं थेराणं चाउम्मासिओ त्ति” अत्रापि चातुर्मासिकपर्वसु त्रिषु शिरसि लोचव्यवस्थापनं तदपि असमीचीनं, यतः पर्युषणापर्वणि अवश्यं गोलोममात्रस्यापि केशस्यापसारणमभ्यधायि ततश्च तदनन्तरं पौधे चतुर्भिर्मासैः ततोऽपि वैशाखे चतुर्भिः ततोऽपि भाद्रपदे चतुर्भिर्मासैरेवं चातुर्मासिको लोचो, न तु चातुर्मासिकपर्वस्थिति, अत्रापि किं नियामकमिति चेत् ? ननु सार्वत्रिकी गीतार्थप्रवृत्तिरेवात्र प्रमाणम्, एतस्याश्च प्रामाण्यं पूर्वतर बहुश्रुतगीतार्थाचरितत्खेन, तथा चोच्यते, - " जे जत्थ जया जया बहुस्सुया चरणकरणमुजुत्ता । जं ते समाचरंती आलंवणतिबसद्धाणमिति ॥ १ ॥” शेषाय । स्तु
197