________________
दि० जैन व्रतोद्यापन संग्रह |
अनुष्टुप् ।
"
तावत्सरित्कृतस्नानो, द्यौतवस्त्रो रहः स्थितः । कृतेर्यापथसंशुद्धिः क्रोधमानी विवर्जयेत् || आदी तीर्थकृतां पूजां, सिद्धपूजां शिवाप्तये । कलिकुण्ड जिनेन्द्रस्य कुर्यात्पूजां सुखप्रदाम् || भारती श्रीगुरु नत्वा, धुतसन्तोषमानसः । सर्वापत्तिविनाशार्थं, त्रिवर्गफल साधने ॥ नवसंख्यग्रहाणां च, जिनसागर नामभाक् । करोति पूजन भक्त्यां, विनेयानां फलप्रदम् ॥ ( इति पठित्वा यन्त्रोपरिपुष्पांजलि क्षिपेत् । वसन्ततिलका |
आदित्य सोमबुधमङ्गलदेव पूज्यान, शुक्र शनैश्वरमथोवरराहुकेतून् ।
२९२ ।
चौरारिभारिग्रहभूतविनाशदक्षान्
संस्थापयामि सकलान् बुधलोकपूज्यान् ॥
ॐ ह्रीं सूर्य चन्द्रमङ्गल बुध गुरुशुक्रशनिराहुकेत्वादि नवग्रह देवाः अत्रागच्छतागच्छत । अत्र तिष्ठत तिष्ठत । अत्र मम सन्निहितां चवत भवत वषट् स्वाहा ।
( त्रिवारान् पुष्पांजलि क्षिपेत् )
द्रुतविलम्बितम् ।
सुरनंदीवर संभव सज्जलैः, कनककुम्भगतै रति शीतलैः ।