________________
२२६] दि० जेन व्रतोद्यापन संग्रह ।
निगोदेषु स्थिता जीवाः भविष्यन्मुक्तिनायकाः । अर्याम्यहं सुद्रव्येण जलाद्यष्टविधेन तान् ॥ ॐ ह्रीं निगोद्रस्थभव्यजीवराशिभ्यो जला० ॥१॥ महातमःप्रमोद्भुता ये जीवभव्यतां गताः ॥अर्चाम्यहं०॥
ॐ ह्रीं महातमःप्रमोद्भूतभव्यजीवराशिभ्यो जला० ॥२॥ तमः प्रभासमुत्पन्ना भव्यराश्यभिधेयका: । अर्चाम्यहं०॥
ॐ ह्रीं तमःप्रमोद्भूतभव्यराशिभ्यो जला० ।।३।। धूम प्रभाश्रिताः सत्वा मोक्षसूत्रोपधारिणः । अर्चा०॥
ॐ ह्रीं धूपः प्रमोद्भूतभव्यराशिभ्यो जला० ॥४॥ पङ्कप्रभासमुत्पन्ना भव्या मानविवर्जिताः । अर्चा०॥
ॐ ह्रीं पंकप्रभाश्रितभव्यराशिभ्यो जला० ॥५॥ चालुकास्थितयो येवै जीवानां राशयो मताः । अर्चा०॥
ॐ ह्रीं वालुकास्थितभव्यजीवराशिभ्यो जलादिकं ॥६॥ ये जीवा भव्यभावाग्राः शक्कराप्रभवाः स्मृताः।अर्चा०॥ ॐ ह्रीं शर्कराप्रभाश्रितभव्यजीवराशिभ्यो जलादिकं ॥७॥ रत्नप्रभाश्रिता जीवाः भव्या ये जिनमार्गगाः अर्चा०॥
ॐ ह्रीं रत्नप्रभाश्रितभव्यजीवराशिभ्यो जला० ८।। तियग्लोगगता जीवा ये भव्याभव्यभावुकाः ।अर्चा०॥
ॐ ह्रीं तिर्यग्लोगस्थितभव्यजीवराशिभ्यो जला० ।।९।। ज्योतिपेटलधामानो ये भव्याः जीवराशयः ।अर्चा०॥ ॐ ह्रीं ज्योतिपटलाभिंतभव्यजीवराशिभ्यो जला० ॥१०॥