________________
दि. जैन व्रतोद्यापन संग्रह । [ १५९ - सर्वार्थवित क्रियते शास्त्र द्वयनेकद्वादशात्मकम् । मतिपूर्व श्रुत ज्ञान यजे सर्वज्ञवत् श्रत ॥ ॐ ह्रीं सतृसम्यक्श्रु तज्ञानाय जला० ॥२॥ आचारो वण्यते यत्र चारित्रं मोक्षसाधकम् । गम्भोरार्थं तदंग तत् यजे तोयादिभिः श्रुतम् ॥ ॐ हीं सम्यक्आचारांगाय जला० ॥३॥ सूत्रकृतांगनामा यः सहस्रत्रिंशद् पदं द्वितीयांग जिनेन्द्रोक्त, यजे तोयादिभिः श्रुत ॥ ॐ ह्रीं सूत्रकृतांगाय जला० ।।४।। स्थानानि तत्वजीवानां कथ्यते यत्र तज्ञकैः । भव्यार्थानि तदंगं च यजे तोयादिभिः श्रुतं । ॐ ह्रीं स्थानांगाय जला० ॥५॥ द्रव्यादीनां च सादृश्य, कथ्यते समवायसः । परस्परैतदंगं च, यजे तोयादिभिः श्रुत ॥ ॐ ह्रीं समवायांगाय जला० ॥६॥ प्रश्नषष्टिसहस्राणि व्याख्याप्रज्ञप्तिकेयतः । प्रोच्यन्ते तस्तदंगं च यजे तोयादिभिः श्रुतम् । ॐ ह्रीं व्याख्याप्रज्ञप्त्यांगाय जला० ॥७॥ ज्ञातृधर्मकथांग तत् यत्र धर्मकथा भवेत् । गम्भीरार्था तदंगं च, यजे तोयादिभिः श्रुतम् ॥ ॐ ह्रीं ज्ञातृधर्मकांगाय जला० ॥८॥