________________
दि० जैन व्रतोद्यापन संग्रह स्वाहा । स्वः स्वाहा । ॐ भूर्भुवः स्वः स्वाहा । स्वधा स्वाहा । हे वरुणदेव ! स्वगुणपरिवार परिवृत्त इदमयं पाद्यं जलमित्यादि । यस्यार्थः । शांतिधारा ।।
वायव्यकोणे। चञ्चच्चन्द्रावदात तुरगमरुजवं मुष्टिसम्मेर्यमध्य मारूढो वायुवेगी प्रिययुवतियुतः पादयाप्तप्रशस्तः । निष्टप्तस्वर्णवर्णोऽवतु वरुणधनाध्यक्षयोः श्रीगरिष्ठां । स्वां काष्ठां यागनिष्ठां परिमणितजगद्वन्धुरो गन्धवाहः।६। _* आं क्रों ह्रीं सुवर्णवर्ण प्रशस्तसर्व लक्षणसंपूर्ण स्वायुधवाहनवधुचिह्न सपरिवार हे पवनदेव ! अत्रागच्छागच्छ संवौषट् स्वाहा । ॐ आं० अत्र तिष्ठ२ ठः ठः स्वाहा । अत्र मम संन्निहितो भव भव वषट् स्वाहा ॥ ६ ॥
ॐ पवनाय स्वाहा । पवनपरिजनाय स्वाहा । पवनानुचराय स्वाहा । पवन महत्तराय स्वाहा । अग्नये स्वाहा । अनिलाय स्वाहा । वरुणाय स्वाहा । प्रजापतये स्वाहा ! ॐ स्वाहा। भूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । ॐ भूभु वः स्वः स्वाहा । स्वधा स्वाहा । हे पवनदेव ! स्वगुणपरिवार परिवृत इदमयंमित्यादि० । यस्यार्थं० शांतिधारा ।।
___ उत्तरस्यां दिशि । कुन्देदुद्योतितांशयतिपटललसद्राजहंसायमानं । सौरभ्यामोदितांत भुवमणि विलसत्पुष्पकाख्यं विमानम् । अध्यासीनः कुलस्त्रीनिवहपरिवृतो व्यावृतीऽयं नुयत्र, . स्वामाशां पातु शश्वद्वितरितविभवस्तारकः कुक्कुबेरः ।।