________________
-
विविध विभव कर्ता, पाप सन्ताप हर्ता, - शिवपद सुख भोक्ता, स्वर्ग लक्ष्म्यादि दाता । गणवर मुनि सेव्यः, मुनि सेव्यः, "सोमसेनेन "
पूज्यः,
·
वृषभ जिनपतिः श्रीं वाञ्छितां मे प्रदद्यात् ॥ १२ ॥ इदं स्तोत्रं पठित्वा हृदयस्थितसिंहासनस्योपरि पुष्पाञ्जलि क्षिपेत् ।
श्री भक्तामर महामण्डल पूजा
-
-
अथ स्थापना
मोक्षसौख्यस्य कर्तृणां भोक्ता शिवसम्पदाम् । आह्वाननं प्रकुर्वेऽहं जगच्छान्ति - विधायिनाम् ॥
ॐ ह्रीं श्रीं क्लीं महाबीजाक्षरसम्पन्न ! श्रीवृषभजिनेन्द्रदेव ! मम हृदये अवतर अवतर संवौषट् इत्याह्नाननम् ।
देवाधिदेव वृषभं जिनेन्द्र, इक्ष्वाकुवंशस्य परं पवित्रं । संस्थापयामीह पुरः प्रसिद्धं जगत्सुपूज्यं जगतां पति च ॥ ॐ ह्रीं श्रीं क्लीं महाबीजाक्षरसम्पन्न ! श्रीबुवभ जिनेन्द्रदेव ! मम हृदये तिष्ठ तिष्ठ ठः ठः । इति स्थापनम् । कल्याणकर्ता, शिवसौख्यभोक्ता, मुक्तेः सुदाता, परमार्थयुक्तः । यो वीतरागो, गतरोषदोषः, तमादिनाथं, निकटं करोमि || ॐ ह्रीं श्रीं क्लीं महाबीजाक्षरसम्पन्न ! श्रीवृषभ जिनेन्द्रदेव ! मम हृदयसमीपे सत्रिहितो भव भव वषट् । इति सनिधिकरणम |