________________
श्री भक्तामर महामण्डल पूजा
( बसमा तिलकात्तम् ) श्रीनाभिराजतनुजं शुभमिष्टिनाथं,
पापापहं मनुजनागसुरेशसेव्यम् । संसार - सागर - सुपोतसमं पवित्र,
बन्दामि भव्यसुखदं वृषभं जिनेशम् ।।२।। यस्याब नाम जपतः पुरुषस्य लोके,
पापं प्रयाति विलयं क्षणमात्रतो हि । सूर्योदये सति यथा तिमिरस्तथास्तं ।
वन्दामि भव्यसुखदं वृषभं जिनेशम् ।।३।। सर्वार्थसिद्धिनिलयाद्ध दि यस्य पुण्यात्,
गर्भावतार - करणेऽमर - कोटिवगः । वृष्टि: कृता मणिमयी पुरुदेशतस्तं,
वन्दामि भव्यसुखदं वृषभं जिनेशम् ।।४।। जन्मावतारसमये सुरवृन्दवन्द्यैः,
भक्त्यागत: परमदृष्टितया नसस्तैः । नीत्वा सुमेरुमभिवन्ध सुपूजितस्तं,
वन्दामि भव्यमुखदं वृषभं जिनेशम् ।।५।। षट्कर्म - युक्तिमवदर्य दयां विधाय,
सर्वाः प्रजाः जिनधुरेण वरंण येन । मजीविताः सविधिना विधिनायकं तं,
बन्दामि भव्यसुखदं वृषभं जिनेशम् ॥६॥