SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ प्रमाणपरीक्षा । ७९ निर्दोषतामस्य साधयेत् तथासौ गुणवानपि-अगुणवत्तामिति न वेदो गुणवान्नाम । यदि पुनरपौरुषेयत्वमेव गुणस्तदानादिम्लेच्छव्यवहारस्यापि गुणवत्त्वं-अपौरुषेयत्वाविशेषात् । तदेव नादुष्टा चोदना पुंसोऽसत्त्वाद्गुणवतः सदा तद्व्याख्यातुः प्रवक्तुर्वा म्लेक्षादिव्यवहारवत् ॥ १ ॥ तया यज्जानतं ज्ञानं तन्नादुष्टनिमित्त सिद्धं येन प्रमाणं स्यात् परमागमबोधवत् ॥२॥ वेदस्य पोरुषेयस्योच्छिन्नस्य चिरकालतः सर्वज्ञेन विना कश्चिन्नोद्धर्तातींद्रियार्थदृक् ॥३॥ स्याद्वादिना तु सर्वज्ञसंतानः स्यात्प्रकाशकः परमागमसंतानस्योच्छिन्नस्य कथंचन ॥४॥ सर्वभाषाकुभाषाश्च तद्वत्सर्वार्थवेदिभिः प्रकाश्यते ध्वनिस्तेषां सर्वभाषास्वभावकः ॥५॥ तत्प्रमाणं श्रुतज्ञानं परोक्षं सिद्धमंजसा अदुष्टकारणोद्भूतेः प्रत्यक्षवदिति स्थितं ॥६॥ ततः सूक्तं प्रत्यक्षं परोक्षं चेति द्वे एव प्रमाणे प्रमाणांतराणां सकलानामप्यत्र संग्रहात् इति संख्याविप्रतिपत्तिनिराकरणमनवचं स्वरूपविप्रतिपत्तिनिराकरणवत् । विषयविप्रतिपत्तिनिराकरणार्थ पुनरिदमभिधीयते-द्रव्यपर्यायात्मकः प्रमाणविषयः प्रमाणविषयवान्यथानुपपत्तेः प्रत्यक्षविषयेण स्वलक्षणेन, अनुमानादिविषयेण च सामान्येन हेतोर्व्यभिचार इति न मंतव्य तथाप्रतीत्यभावात् । न हि प्रत्यक्षतः स्वलक्षणं पर्यायमात्रं सन्मात्रमिवोपलभामहे । नाप्यनुमानादेः सामान्यद्रव्यमानं विशेषमात्रमिव प्रतिपद्येमहि सामान्यविशेषात्मनो द्रव्यपर्यायात्मकस्य जात्यंतरस्योपलब्धेः प्रवर्तमानस्य च तत्प्राप्तेः अन्यथार्थक्रियानुपपत्तेः। न हि स्वलक्षणमक्रियासमर्थ क्रमयोगपद्यविरोधात् सामान्यवत् । नच तत्र क्रमयोगपद्ये संभवतः परिणामाभावात् । क्रमाक्रमयोः परिणामेन व्याप्तत्वात् सर्वधाप्यपरिणामिनः क्षणिकस्य नित्यस्य च तद्विरोधसिद्धेः प्रसिद्ध च सामान्यविशेषात्मनि वस्तनि तदंशमाने विशेषे सामान्ये वा प्रवर्त्तमानं कथं प्रमाणं नाम प्रमाणस्य यथावस्थितवस्तुग्रहणलक्षणत्वात् तदेकदेशग्राहिणः सापेक्षस्य सुनयत्वान्निरपेक्षस्य दुर्णयत्वात् । तत एव न तद्विषयेणानेकांत: साधनस्य स्यात् । तत्र प्रमाणविषयत्वस्य हेतोरप्रवृत्तेः । अतःसिद्धो द्रव्यपर्यायात्मार्थः प्रमाणस्येति तद्विप्रतिपत्तिनिवृत्तिः। फलविप्रतिपत्तिनिवृत्त्यर्थं प्रतिपाद्यते-प्रमाणात्फलं कथंचिद्भिन्नमभिन्नं च प्रमाणफलत्वान्यथानुपपत्तेः । हानोपादोनोपेक्षाबुद्धिरूपेण प्रमाणफलेनानेकांत इति न शंकनीयं तस्याप्येकप्रमात्रात्मना प्रमाणादभेदसिद्धेः प्रमाणपरिणतस्यैवात्मनः फलपरिणामप्रतीतेः, अन्यथा संतानांतरवत्प्रमाणफलभावविरोधात् । साक्षादज्ञाननिवृत्तिलक्षणेन प्रमाणादभिन्नेन प्रमाणफलेन व्यभिचार इत्यप्यपरीक्षिताभिधानं तस्यापि कथंचित्प्रमाणाद्भेदप्रसिद्धः प्रमाणफलयोनिरुक्तिसाधनविरोधात् । करणसाधनं हि प्रमाणं स्वार्थनिर्णीतौ साधकतमत्वात् । स्वार्थनिर्णीतिरज्ञाननिवृत्तिः फलं भावसाधनं तत्साध्यत्वात् । एतेन कर्तृसाधनात् प्रमाणात्कथंचिद्वेदः प्रतिपादितः तस्य स्वार्थनिर्णीतौ खतंत्रत्वात् । स्वतंत्रस्य च कर्तृत्वात् स्वार्थनिर्णीतेस्तु अज्ञाननिवृत्तिखभावायाः क्रियात्वात् । नच क्रियाक्रियावतोऽर्थातरमेवानर्थातरमेव वा क्रियाक्रियावद्भावविरोधात् । भावसाधनात्प्रमाणादज्ञाननिवृत्तिरभिवेति,अयुक्तंप्रमातुरुदासीनावस्थायामव्याप्रियमाणस्य प्रमाणशक्तीवसाधन प्रमाणस्य व्यवस्थापितत्वात् तस्याज्ञाननिवृत्तिफलत्वासंभवात् । स्वार्थव्यवसितौ व्याप्रियमाणं हि प्रमाणमज्ञानानातं साधयेत् नान्यथा भतिप्रसंगात् । ततः सूक्तं
SR No.090055
Book TitleAptamimansa Pramanpariksha
Original Sutra AuthorSamantbhadracharya, Vidyanandswami
AuthorGajadharlal Jain
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year1914
Total Pages90
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Epistemology
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy