________________
प्रमाणपरीक्षा |
सर्वथा प्रयत्नांनतरीयत्वहेतुः कथंचिद्वा? सर्वथा चेत् ? अप्रसिद्धः स्याद्वादिनो द्रव्यार्थादिप्रयत्नांनंतरीयकत्वादागमस्य । कथंचिच्चद्विरुद्धः कथंचिदपैरुषयत्वसाधनात् । प्रयत्नानंतरीयकत्वं हि प्रवचनस्योच्चारकपुरुषप्रयत्नानंतरोपलंभात् स्यात् उत्पादकपुरुषप्रयत्नांनंतरोपलंभाद्वा ? प्रथमकल्पनायामुच्चवारकपुरुषांपेक्षया पौरुषेयत्वमेव तस्य संप्रति पुराणपुरुषेात्पादितकाव्यप्रबंधस्येव प्रसक्तं । न पुनरुत्पादक पुरुषापेक्षया प्रवचनस्याना - दिनिधनस्योत्पादक पुरुषाभावात् । सर्वज्ञ उत्पादक इति चेत् ? वर्णात्मनः पदवाक्यात्मनो वा प्रवचनस्योत्पादकः स स्यात् ? न तावद्वर्णात्मनस्तद्वर्णानां प्रागपि भावात् तत्सदृशानां पूर्व भावो न पुनस्तेषां घटादीनामिवेति चेत् कथमिदानामनुवादकस्तेषामुत्पादको न स्यात् : तदनुवादात् प्रागपि तत्सदृशानामेव सद्भावात् तेषामनूद्यमानानां तदैव सद्भावात् । तथाच न कश्चिदुत्पादको वर्णानां सर्वस्योत्पादकत्वसिद्धेः । यथैव हि कुंभादीनां कुंभकारादिरुत्पादक एव न पुनरनुकारकस्तथा वर्णानामपीति तदनुवादकव्यवहारविरोधः पूर्वोपलब्धवर्णानां सांप्रतिकवर्णानां च सादृश्यादेकत्वापचारात्पश्चाद्वादकोऽनुवादक एव । असावाह वर्णान्नाहमिति स्वातंत्र्यपरिहरणात्पारतंत्र्यानुसरणादिति चेत् तर्हि यथा वर्णानां पठितानुवादकः तथा पाठयितापि तस्यापि स्वातंत्र्याभावात् सर्वस्य स्वोपाध्यायपरतंत्रत्वात् तत एवं वक्तव्यं -
नेह वर्णान्नरः कश्चित् स्वातंत्र्येण प्रपद्यते यथैवास्मै परैरुक्तास्तथैवैतान्विवक्ष्यते ॥ १ ॥
परेप्येवं विवक्ष्यंति तस्मादेषामनादिता
प्रसिद्धा व्यवहारेण संप्रदायाव्यवच्छिदा ॥ २॥
७७
तथा च सर्वज्ञोप्यनुवादक एव पूर्वपूर्वसर्वज्ञोदितानामेव चतुःषष्ठिवर्णानामुत्तरोत्तरसर्वज्ञेनानुवादात् । तस्य पूर्व सर्वज्ञोदितवर्णानुपलंभे पुनरसर्वज्ञत्वप्रसक्तिः । तदेवमनादिसर्वज्ञसंततिमिच्छतां न कश्चित्सर्वज्ञो वर्णानामुत्पादकस्तस्य तदनुवादकत्वात् । पदवाक्यात्मनः प्रवचनस्योत्पादकः सर्वज्ञ इत्यप्यनेनापास्तं प्रवचनपदवाक्यानामपि पूर्वपूर्वसर्वज्ञोदितानामेवोत्तरोत्तरसर्वज्ञेनानुवादात् सर्वदांगप्रविष्टांगबाह्यश्रुतस्य शब्दात्मनो द्वादशविकल्पानेकविकल्पस्यान्यादृशवर्णपदवाक्यत्वासंभवात् तस्यापूर्वस्योत्पादकायोगात् ।
स्यान्मतं - महेश्वरोऽनादिरेकः सर्वज्ञो वर्णानामुत्पादकः प्रथमं सृष्टिकाले जगतामिवोपपन्नस्तस्य सर्वदा स्वतंत्रत्वात् सर्वज्ञांतरपरतंत्रतापायात् तदनुवादकत्वायोगादिति तदप्यसत्यं तस्यानादेरेकस्येश्वरस्या तपरीक्षायां प्रतिक्षिप्तत्वात्, परीक्षाक्षमत्वाभावात् कपिलादिवत् । संभव वा सदैवैश्वरः सर्वज्ञो ब्राह्मण मानेन वर्षाशतांते वर्षशतांते जगतां सृष्टा पूर्वस्मिन् पूर्वस्मिन् सृष्टिकाले स्वयमुत्पादितानां वर्णपदवाक्यानामुत्तरस्मिन्नुत्तरस्मिन् सृष्टिकाले पुनरुपदेष्टा कथमनुवादको न भवेत् ? । न ह्येकः कविः स्वकृतकाव्यस्य पुनः पुनर्वक्तानुवादको न स्यात् इति वक्तुं युक्तं,
शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्
इति वचनविरोधात् । एकस्य पुनः पुनस्तदेव वदतोऽनुवादासंभवे पुनरुक्तस्यैव सिद्धेः ततः कस्यचित्स्वयं कृतं काव्यं पुनः पुनर्वदतोऽनुवादकत्वे महेश्वरः सर्वदैवानुवादकः स्यात् । पूर्वपूर्ववादापेक्षयोत्तरोत्तरस्यानुवादरूपत्वात् । नच पूर्वपूर्ववर्णपदवाक्यविलक्षणान्येव वर्णपदवाक्यानि महेश्वरः करोति इति घटते तेषां कुतश्चित्प्रमाणादप्रसिद्धेः प्रसिद्धौ वा तेषां किमज्ञानात्तदा महेश्वरोऽप्रणेता स्यात् । अथाशक्तेरुतप्रयोजनाभावादिति ? न तावदज्ञानात् सर्वज्ञत्वविरोधात् तस्य सर्वप्रकारवर्णपदवाक्यवेदित्यसिद्धेः अन्यथानीश्वरत्वप्रसंगात् । नाप्यशक्तेः - ईश्वरस्यानंतशक्तित्ववचनात् । यदि ह्येकदा कानि चिदेव वर्णादीनि प्रणेतुमीश्वरस्य शक्तिर्नान्यानि तदा कथमनंतशक्तिः स्यादनीशवत् । प्रयोजनाभावान्नान्यानि प्रणयतीति चेत् न सकलवाचकप्रकाशनस्यैव प्रयोजनत्वात् सकलवाच्यार्थप्रकाशनवत् । सकलजगत्कारणवद्वा प्रतिपाद्यजनानुरोधात् केषां चिदेव वर्णादीनां प्रणयने जगदुपभोक्तृप्राण्यनुरोधात् केषांचिदेव जगत्कार्याणां करणं स्या
१ गौतमीयं सूत्रं ।