SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ प्रमाणपरीक्षा । परपर्यनुयोगपराणि हि वृहस्पतेः सूत्राणि इति वचनात् सर्वत्र स्वातंत्र्याभावादित्येतदपि यत्किंचन भाषणमेव । किमदुष्टकारणजन्यत्वेन प्रामाण्यं साध्यते बाधारहितत्वेनेवेत्यादि पक्षाणां क्वचिन्निर्णयाभावे संदेहाभावात् परपर्यनुयोगायोगात् । स्यादाकूतं पराभ्युपगमात् तन्निश्वयसिद्धेः संशयोत्पत्तेर्युक्तः प्रश्नः तथाहि - मीमांसकाभ्युपगमात् तावददुष्टकारणजन्यत्वं बाधावर्जितत्वं च निर्णीतं निश्चितत्वापूार्थत्वलोकसम्मतत्ववत् । तदुक्तं— तत्र पूर्वार्थविज्ञानं निश्चितं बाधववर्जितं । अदुष्टकारणारब्धं प्रमाणं लोकसम्मतं ॥ १ ॥ इति तथा प्रवृत्तिसामर्थ्यमपि नैयायिकाभ्युपगमान्निर्णीतं प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणं इति वचनात् । तथार्थक्रियाप्राप्तिनिमित्तत्वमविसंवादित्वलक्षणं सौगताभ्युपगमान्निर्णीतमेव प्रमाणमविसंवादिज्ञानं अर्थक्रियास्थितिः अविसंवादनं शब्दोऽप्यभिप्रायनिवेदनादिति वचनात् । तदिदांनी चार्वाकमतानुसारेण संदि पर्यनुयुज्यमानं न किंचिदुपालंभमर्हति इति तदेतदपि न व्यवस्थां प्रतिपद्यते पराभ्युपगमस्य प्रमाणाप्माणपूर्वकत्वे संशयाप्रवृत्तेः तथाहि यदि परेषामभ्युपगमः प्रमाणपूर्वकः तदा कथं संदेह: ? प्रमाणपूर्वकस्य निर्णीतत्वात् । निर्णीतेः संशयविरोधात् । अथाप्रमाणपूर्वकः तथापि न संदेहः प्रर्वतते तस्य क्वचित्कदाचित्कथंचित् निर्णयपूर्वकत्वात् । तन्निर्णयस्यापि प्रमाणपूर्वकत्वात् । प्रमाणाभावे प्रमाण्यनिश्चयात् तनिश्चयनिबंधनस्य च प्रमाणांतरस्याभ्यस्तविषयत्वे सर्वथा तदनुपपत्तेरित्यलं प्रसंगेन सर्वस्येष्टस्य संसिद्धे : प्रमाणप्रसिद्धेरबाधनात् अन्यथातिप्रसंगसमर्थनादिति । एतेन सर्वथा शून्यं संविदद्वैतं पुरुषाद्वैतं शब्दाद्वैतं वा समाश्रित्य प्रमाणप्रमेयभागं निराकुर्वाणाः प्रत्याख्याताः स्वयमाश्रितस्य सर्वथा शून्यस्य संविदद्वैतादेर्वा कथंचिदिष्टत्वे प्रमाणसंसिद्धेर्व्यवस्थापनात् । तस्याप्यनिष्टत्वे तद्वादित्वविरोधात् । प्रलापमात्रानुसरणापत्तेःपरीक्षकत्वव्याघातात् इति । तदेवं प्रमाणतत्त्वनिर्णीतौ प्रमेयतत्त्वासिद्धिर्निर्बाधा व्यवतिष्ठत एव । ननु चैव प्रमाणसिद्धमपि किं स्वतः प्रमाण्यमात्मसात्कुर्वीति परतो वा ? न तावत्स्वतः सर्वत्र सर्वदा सर्वस्य तद्विप्रतिपत्त्यभावप्रसंगात् । नापि परतः - अनवस्थानुषंगात् परापरप्रमाणान्वेषणात् कचिदवस्थितेरयोगात् । प्रथमप्रमाणाद्वितीयस्य प्रामाण्यसाधने द्वितीयाच्च प्रथमस्य परस्पराश्रयाणापत्तेः प्रकारांतराभावादिति केचित्तेऽप्यसमीक्षितवचसः संलक्ष्यंते स्वयमभ्यस्तविषये प्रमाणस्य स्वतः प्रामाण्यसिद्धेः सकलविप्रतिपत्तीनामपि प्रतिपत्तुरभावात् अन्यथा तस्य प्रमेये निस्संशयं प्रवृत्त्ययोगात् । तथानभ्यस्तविषये परतः प्रमाणस्य प्रामाण्यनिश्चयात् सन्निश्चयनिमित्तस्य च प्रमाणांतरस्याभ्यस्तविषयत्वे स्वतः प्रमाणत्वसिद्धेः अनवस्थापरस्पराश्रयणयोरनवकाशात् । तस्याप्यनभ्यस्तविषयत्वे परतः प्रमाणादभ्यस्तविषयात् स्वतः सिद्धप्रामाण्यात् प्रमाणत्वनिश्चयात् सूदरमपि गत्वा कस्यचिदभ्यस्तविषयस्य प्रमाणस्यावश्यंभावित्वात् अन्यथा प्रमाणतदाभासव्यवस्थानुपपत्तेः तदभावव्यवस्थानुपपत्तिवत् । कुतः पुनः प्रतिपत्तुः कचिद्विषयेऽभ्यासः कचिदनभ्यासः स्यात् ? इति चेत् तत्प्रतिबंधक दशाविशेषविगमाभ्यां कचिदभ्यासानभ्यासौ स्यातां इति ब्रूमह परिदृष्टकारणव्यभिचाराददृष्टस्य कारणस्य सिद्धेः तन्नः कर्म ज्ञानावरणत्रीयतरायाख्यं सिद्धं तस्य क्षयोपशमात्कस्य चित् क्वचिदभ्यासज्ञानं तत्क्षयोपशमाभावे वा ऽनभ्यासज्ञानमिति सुव्यवस्थितं प्रमाणस्य प्रमाण्यं सुनिश्वितासंभवद्बाधकप्रमाणत्वात् स्वयमिष्टवस्तुवत् सर्वत्रेष्टसिद्धेस्तन्मात्रनिबंधनत्वादन्यथा सर्वस्य तत्त्वपरीक्षायामनधिकारादिति स्थितमेतत्- प्रामाणादिष्टसंसिद्धिरन्यथातिप्रसंगतः । प्रामाण्यं तु स्वतः सिद्धमभ्यासात्परतोऽन्यथा ॥ १ ॥ इति एवं प्रमाणलक्षणं व्यवसायात्मकं सम्यग्ज्ञानं परीक्षितं तत्प्रत्यक्षं परीक्षं वेति संक्षेपाद द्वितयमेव व्यवतिष्ठते
SR No.090055
Book TitleAptamimansa Pramanpariksha
Original Sutra AuthorSamantbhadracharya, Vidyanandswami
AuthorGajadharlal Jain
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year1914
Total Pages90
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Epistemology
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy